________________
वृहत्कल्पसूत्रे
छाया-नो कल्पते निम्रन्थ्या एकाकिन्या ग्रामानुग्रामं द्रोतुं वा वर्षावासं वा
वस्तुम् ॥ सू० १८॥
चूर्णी- एवमेव एकाकिन्या निम्रन्थ्या ग्रामानुग्रामम् एकस्माद् ग्रामाद् ग्रामान्तरं द्रोतुम् विहर्तुम् , तथा वर्षावासं चातुर्मास्यनिमित्तं वस्तुं न कल्पते ॥ सू० १८॥
पूर्व निर्ग्रन्थ्या एकाकिनीत्वं निषिद्धम् , सम्प्रति श्रमणानामचेलकत्वस्य भगवता प्रतिपादितत्वेन काचित् श्रमणी चापि अचेलकत्वं कर्तुमिच्छेदतस्तासामचेलकत्वं प्रतिपेघयन्नाह'नो कप्पई' इत्यादि ।
सूत्रम्-नों कप्पइ निग्गंथीए अचेलियाए होत्तए । सू० १९ ॥ छाया-नो कल्पते निर्ग्रन्थ्या अचेलिकया भवितुम् ॥ सू० १९ ॥
चूर्णी—'नो कप्पई' इति । नो कल्पते निम्रन्थ्याः श्रमण्या अचेलिकया-चेलः वस्त्रं, न चेलो वस्त्रं यस्याः सा अचेला, अचेला एव अचेलिका वनवर्जिता, तया वस्त्ररहितया भवितुम्-अवस्थातुं न कल्पते इति पूर्वेण सम्बन्ध, साध्या वनरहितया न भवितव्यम्-साध्वी वस्त्ररहिता न भवेदिति भावः । अनेन साध्वीनां जिनकल्पो निषिद्ध इत्यवगन्तव्यम् , तासां तादृशसंहननाभावात् । तरुणस्तेनकादिकृतोपसर्गजन्ये भये उपस्थिते तन्निवारणसामर्थ्याऽभावात्साध्वी वस्त्रवर्जिता भवितु न शक्नोतीति तस्या अचेलकत्वं भगवता निषिद्धम् । वस्त्ररहितां साध्वीं दृष्ट्वा स्त्रीशरीरस्य पुरुषमोहकस्वभावात् तरुणादिश्चतुर्थसेवनादिकं कत्तु साहसं कुर्यात्, एवं यदा कुलटाऽपि तावद् व्यभिचारिणी अपि वनरहिता भवितुं नेच्छति तदा किमुत वक्तव्यं कुलीनानां साध्वीनां विषये, यत् न ताः कदापि वस्त्ररहिता भवितुं वाञ्छन्तीति तात्पर्यम् । पुनश्च अचेलकता प्रतिपन्नानां श्रमणीनां लोकापवादनिन्दितानां तीर्थोच्छेदो भवति, वृत्तिश्च तासां दुर्लभा भवति । एवं विवन्नां श्रमणीमवलोक्य लोको वदति-"स्त्रीणां लज्जा विभूषणम्" इति वचनात् कुत्र गता आसां लज्जा ? इति प्रव्रज्यां ग्रहीतुम् अभिमुखीभूतानामपि प्रत्रज्याग्रहणतः परावर्तनं स्यात् । अन्यो वा कश्चित् प्रत्रव्याग्रहणतस्ता निवारयेत् । लोकास्तत्कुटुम्विजनान् एव कथयन्ति यत्युष्मदीया दुहितरः स्नुषा वा याः पूर्वं चन्द्रमूर्यकिरणैरस्पृष्टगात्रा आसन् ताः सम्प्रति प्रत्रजितावस्थायां सर्वजनदृष्टिस्पृष्टगात्राः सर्वलोकपुरतो विवना हिण्डन्ते, कीदृशी चैषा प्रव्रज्या , लोकरेवमुक्ते तत्कुटुम्बिनो भूयस्ताः स्वगृहमानयन्ति । अनेन प्रवचनोड्डाहोऽवश्यम्भवी । इत्याद्यनेकदोषसंभवात् साध्वीभिरचेलाभिर्न भवितव्यमिति भावः ॥ सू० १९॥
पूर्व निर्ग्रन्थीनामचेलकत्वं निषिद्धम्, सम्प्रति तासां पात्ररहितत्वं प्रतिषेधयितुमाह'नो कप्पइ' इत्यादि।
सूत्रम्-नो कप्पइ निग्गंथीए अपाइयाए होत्तए ।। सू० २०॥