________________
चूर्णिभाष्याव चूरी उ० ५ सू० २०-२२
निर्ग्रन्थ्या आतापनाविधिः १३१ छाया-नो कल्पते निर्ग्रन्थ्या अपात्रिकया भवितुम् ॥ सू० २० ॥
चूर्णी-'नो कप्पई' इति । नो कल्पते निम्रन्थ्या अपात्रिकया पात्ररहितया भवितुम् अवस्थातुम्, पात्रराहित्ये आहारशौचादि क्रियाया अप्यसंभवेन लोकनिन्दासद्भावात् ।
पात्रं विना यत्र तत्रैव साध्वीभिर्भोक्तव्यं स्यात् । लोको वदेत्-साध्वीभ्यः कोऽपि पात्रं न ददाति तेन इमा गोश्वानादिवत् यत्र कुत्रापि निर्लज्जा सती लब्धमाहारं भोक्तुमारभन्ते कीदृश आसां धर्मः ? इति लोकापवादोऽवश्यम्भावीत्यतो निर्ग्रन्ध्या अपात्रिकया न भवितव्यमिति भावः ॥ सू० २० ॥
पूर्वसूत्रे निर्ग्रन्ध्याः पात्रं विनाऽवस्थातुं न कल्पते इत्युक्तम् , सप्रति तस्या विवस्त्रशरीरेण कायोत्सर्गनिषेधमाह-'नो कप्पइ' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गयीए वोसट्ठकाइयाए होत्तए ॥ सू० २१ ॥ छाया-नो कल्पते निम्रन्थ्या व्युत्सृष्टकायिकया भवितुम् ॥ सू० २१॥
चूर्णी-'नो कप्पइ' इति । नो कल्पते निर्ग्रन्ध्या व्युत्सृष्टकायिकया-व्युत्सृष्टः शरीरवस्त्रादिममत्वत्यागेन परित्यक्तः कायो देहो यया सा व्युत्सृष्टकाया, सा एव व्युत्सृष्टकायिका, तया 'मया दिव्याधुपसर्गाः सोढव्याः' इत्यभिग्नहं गृहीत्वा शरीराद् वस्त्रं पृथक् कृत्य समयप्रसिद्धेन योगविषयकाभिनवकायोत्सर्गेण स्थितया भवितुम्-अवस्थातुं न कल्पते, निम्रन्थ्या उद्घाटित शरीरेण कायोत्सर्ग कर्तुं न कल्पते इति भावः । यतस्तथास्थिताया उदीर्णमोहप्रेरणया तरुणग्रहणादय उपसर्गाः पूर्वोक्ता एव भवन्ति, तेन ब्रह्मचर्यव्रतभङ्गप्रसङ्ग आपतेत , तस्मात् निर्ग्रन्ध्या विवस्त्रशरीरया कायोत्सर्गो न कर्त्तव्य इति भावः ॥ सू० २१॥
पूर्व निर्ग्रन्ध्या विवस्त्रशरीरेण कायोत्सर्गः प्रतिषिद्धः, सम्प्रति निर्ग्रन्थ्या प्रामादितो बहिरातापनाग्रहणनिषेधं प्रतिपादयितुमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीए पहिया गामस्स वा णगरस्स वा खेडस्स वा कब्बडस्स वा पट्टणस्त वा मडवस्स वा आगरस्स वा दोणमुहस्स वा आसमस्स वा सण्णिवेसस्स वा उड्ढं वाहाओ पगिज्झिय पगिज्झिय सूराभिमुहीए एगपाइयाए ठिच्चा आयावणाए आयावित्तए, कप्पइ से उव्वस्सयस्स अंतो वगडाए संघाडिपडिबद्धाए पलंवियवाहियाए समतलपाइयाए ठिच्चा आयावणाए आयावित्तए ॥ सू० २२ ॥
छाया-नो कल्पते निर्ग्रन्थ्याः वहिः प्रामस्य वा नगरस्य वा खेटस्य वा कर्वटस्य वा पत्तनस्य वा मडम्बस्य वा आकरस्य वा द्रोणमुखस्य वा आश्रमस्य वा संनि. वेशस्य वा उर्व बाहू प्रगृह्य प्रगृह्य सूर्याभिमुख्याः एकपादिकायाः स्थित्वा आतापनया