________________
बृहत्कल्पस्त्रे मारोहयेत् तेनावतारिता जनाः प्रदेपं कुर्युः, श्रमणा उत्तरिष्यन्तीति कृत्वा संप्रस्थितां नावं पुनरावर्तयेत् , श्रमणान् वाऽवलोक्य परतटाद् नावमानयेत् , तत्र ये जनास्तावद् नावमारूढा अपि जलमध्ये पूर्वतटे वा अवतारितास्ते नाविकं प्रति श्रमणान् प्रति वा प्रदेषमावहन्तोऽधिकरणं वा कुर्युः, जले तटे वा तिष्ठन्तस्ते अप्कायहरितकायादीनां विराधनां कुर्वन्ति, इत्यादयोऽनेके दोषाः श्रमणानां संपद्यन्ते, तस्माद् भगवता कारणं विना नद्युत्तरणं श्रमणानां निषिद्धमिति ॥ सू० ३२ ॥
पूर्वसूत्रे गङ्गादिपञ्चनदीनां मासमध्ये द्वित्रिवारं सन्तरणं निषिद्धम् , सम्प्रति नदीविशेषोत्तरणेऽपवादसूत्रमाह-'अह पुण' इत्यादि । ।
सूत्रम् - अह पुण एवं जाणिज्जा एरवई कुणालाए जत्य चक्किया एगं पायं जले किच्चा एगं पायं थले किच्चा एवं से कप्पइ अंतो मासस्स दुक्खत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, एवं नो चक्किया एवं शं नो कप्पई अंतो मासस्स दुक्खुत्तो वा विक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा ॥ सू० ३३ ॥
छाया--अथ पुनरेवं जानीयात् -ऐरावती कुणालायाः यत्र शक्नुयात् एकं पादं जले कृत्वा एक पादं स्थले कृत्वा एवं खलु कल्पते अन्तो मासस्य द्वि-कृत्वो वा विकृत्वो वा उत्तरीतुं वा संतरीतुं वा, एवं नो शक्नुयात् एवं खलु नो कल्पते अन्तो मासस्य द्वित्कृत्वो वा विकृत्वो वा उत्तरीतुं वा संतरीतुं वा ॥ सू० ३३॥
चूर्णी-'अह पुण' इति । अथ-यदि पुनरेवं वक्ष्यमाणरीत्या जानीयात् ऐरावती नाम नदी या कुणालाया नगर्याः समीपे जहाईप्रमाणेन उद्वेधेन प्रवहति तस्याम् एतादृश्यामन्यस्यां वा नद्याम् कस्यामित्याह-'जत्थ' इति यत्र 'चक्किया' इति शक्नुयात् एकं पादं जले कृत्वा जले स्थापयित्वा एकं पादं स्थले-जलोपरि कृत्वा एवं णं-एवं खलु यत्रोत्तरीतुं शक्नुयात तत्र तादृश्यां नद्यां कल्पते निर्ग्रन्थनिर्ग्रन्थीनां अन्तो मासस्य मासमध्ये द्विः कृत्वो वा द्विवारम् त्रिःकृत्वो वा त्रिवारम् उत्तरीतुं वा उल्लवयितुं पारं गन्तुमित्यर्थः, संतरीतुं वा पुनः प्रत्यागन्तुं वा कल्पते इति सम्बन्धः, किन्तु यत्र तावद् एवम् उक्तरीत्या एकं पादं जले कृत्वा एक पादं स्थले कृत्वा उत्तरीतुं 'नो चक्किया' इति नो शक्नुयात् एवम् एतादृश्यां परिस्थितौ पूर्वोक्तरीत्या उत्तरणानुपाये खल नो कल्पते श्रमणश्रमणीनाम् अन्तो मासस्य मासाभ्यन्तरे दिःकृत्वो वा त्रि.कृत्वो वा उत्तरीतुं वा संतरोतुं वेति । अत्रेदें बोध्यम्- ऐरावती खलु सा नदी या कुणालानगर्याः समीपेऽर्द्धयोजनवित्तीर्णा वहति, सा चोधेिन जड्वार्द्धप्रमाणा वहति, तस्यां जलस्थलयोः पादकरणेन उत्तरीतुं शक्यते, स्थलपदेनात्र जलोपरिभागस्य ग्रहणं भवति यस्मात् एकं पादं जलबहिर्भागे उपरि आकाशप्रदेशे कत्तुं शक्यते इति, या वा इदृशी अन्यापि नदी भवेत्तस्यामप्येवंरीत्या उत्तरीतुं कल्पते । यत् पूर्वोक्तासु महानदीपु उद्वेषाधिक्येन एवं विधिना उत्तरीतुं