________________
चूर्णिभाष्यावचूरी उ०-४ सू० ३२-३३ निर्ग्रन्थनिर्ग्रन्थीनां नद्युत्तरणविधिः ११५
पूर्व 'छिन्नावाएसु पंथेसु' इति वचनेन मार्गस्य प्रस्तुतत्वात् सम्प्रति मार्गे नदी भवति तद्विषये विधि प्रदशयति-'नो कप्पइ' इत्यादि ।
सूत्रम्--नो कप्पइ निग्गंथाण वा निग्गंथीण वा इमाओ पंच महानईओ उदिवाओ गणियाओ वंजियाओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरितए वा, तंजहा-गंगा १, जउणा २, सरऊ ३, कोसिया ४, मही ५ ॥ सू०.३२ ॥
छाया_नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमाः पञ्च महानद्यः उद्दिष्टाः गणिताः व्यञ्जिताः अन्तो मासस्य द्विःकृत्वो वा त्रिकृत्वो वा उत्तरीतुं वा संतरीतुं वा, तद्यथा-गङ्गा १, यमुना २, सरयूः ३, कोशिका ५, मही ५॥ सू० ३२॥
चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमा वक्ष्यमाणाः प्रत्यक्षासन्नाः प्रसिद्धाः पञ्च-पञ्चसख्यकाः महानद्यः विशालप्रवाहवत्त्वात् सततजलसम्भृतत्वाच्च महानद्यः उद्दिष्टाः महानदीत्वेन सामान्यतोऽभिहिताः, गणिताः विशालप्रवाहवत्त्वेन शेषनदीषु गणनाविषयीभूताः, व्यञ्जिताः स्वस्वप्रसिद्धनाम्ना व्यक्तीभूताः, एता महानद्यः अन्तो मासस्य एकमासस्य मध्ये द्विःकृत्वो वा द्विवारम् , त्रिःकृत्वो वा उत्कृष्टेन वारत्रयम् उत्तरीतं वा पादाभ्यां तरीत्वा पारं गन्तुं वा संतरीतुं वा नावादिना पारं गन्तुं वा न कल्पते निम्रन्थनिर्ग्रन्थीनामिति । कास्ता महानद्यः ? इति तासां नामान्याह-'तं जहा' तद्यय॑थागङ्गा १, यमुना २, सरयूः ३, कोशिका ४, मही ५ इत्येताः पञ्च नदीः उत्तरीतं वा संतरीतुं वा निम्रन्थनिर्ग्रन्थीनां द्वित्रिवार न कल्पते, अनेनायातम् कारणे मासमध्ये एकवारं तरीतुं कल्पते इति भावः । उपलक्षणात् सिन्धुब्रह्मपुत्राद्यानामन्यासामपि महानदीनां ग्रहणं भवति तेन ता अपि द्वित्रिवारम् उत्तरीतुं वा संतरीतुं वा न कल्पते इत्यवसेयम् । ननु अन्यास्वपि महानदीषु विद्यमानासु सूत्रे गङ्गादीनां पञ्चानामेव नदीनां नामग्रहणं कथं कृतम् ? इति चेदुच्यते-येषु देशेषु गङ्गादयो महानद्यः प्रवहन्ति तेषु देशेषु मगधविहारादिषु पुराकाले विहारं कुर्वन्त आसन् ताश्च कदाचिदपि न शुष्यन्ति तस्माद् नित्य विहारमार्गस्थितानां गङ्गादिपञ्चनदीनामेव सूत्रे ग्रहणं कृतमिति । नदीनामुत्तरणे संतरणे श्रमणानामात्मसंयमविराधनाऽवश्यम्भाविनी। तत्र आत्मविराधना पादादिनामुत्तरणे जलस्थितकण्टकप्रस्तरादिना पादौ विध्यतः, अगाधजले ब्रुडनं वा स्यात् , प्रवाहवेगेन देशान्तरं वा प्राप्यते, इत्यादि । संयमविराधना नावादिना संतरणे षट्कायविराधनाऽवश्यंभाविनी, तीर्थकृतामाज्ञाभङ्गादयो दोषा भवेयुः, अनेके वा प्रत्यपाया नावमारूढानां श्रमणानां भवन्ति, तथाहि-संतरणार्थिन श्रमण ज्ञात्वा नाविकोऽनुकम्पया तदर्थं नावं स्थलादुदके, उदकात्तीरस्थले प्रक्षिपेत् , नावाभ्यन्तरस्थं जलं बहिः प्रक्षिपेत , पूर्व वा ये नावमारूढास्तान् उदके पूर्वतटे वा अवतार्य श्रमणान् नाव