SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Annr AAVM वृहत्कल्पसूत्र पूर्व सार्वरात्रिकप्रदीपप्रतिवद्धोपाश्रये निम्रन्थनिर्ग्रन्थीभिर्न स्थातव्यमिति प्रोक्तम् , साम्प्रतं पिण्डादिप्रतिवद्धोपाश्रयविषये त्रीणि मूत्राणि वक्ष्यति, तत्र प्रथमं पिण्डादिप्रतिवद्धोपाश्रयनिवासप्रतिषेधसूत्रम् १, द्वितीयं ऋतुबद्रकालयोग्योपाश्रयनिवासविधिप्रतिपादकं सूत्रम् २, तृतीयं चातुर्मासयोग्योपाश्रयनिवासविधिप्रतिपादकं सूत्रं ३ चेति, तत्र प्रथमं पिण्डादिप्रतिबद्धोपाश्रयनिवासनिषेधमूत्रमाह- 'उवस्सयस्स' इत्यादि । सूत्रम्--उचस्सयस्त अंतो वगडाए पिंडए वा लोयए वा खीरे वा दहिं वा णवणीए वा सपि वा तेल्ले वा फाणिर वा पूर्व वा सक्कुली वा सिहरिणी वा उक्खिताणि वा विक्खित्ताणि वा विइकिण्णाणि वा विप्पइण्णाणि वा नो कप्पई निग्गंधाण वा निग्गंधीण वा अहालंदमवि वत्थए । सू० ८ ॥ छाया-उपाश्रयस्य अन्तर्वगडायां पिण्डको वा लोचकं वा क्षीरं वा दधि वा नवनीतं वा सपिर्वा तैलं वा फाणितं वा अपूपो वा शकुली वा शिखरिणी वा उत्क्षिप्तानि वा विक्षिप्तानि वा व्यतिकीर्णानि वा विप्रकीर्णानि वा नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथालन्दमपि वस्तुम् ॥ सू० ८ ॥ चूर्णी-'उवस्सयस्स' इति । उपाश्रयस्य अन्तर्वगडायां पिण्डको वा पिण्डस्तावत् विशिष्टस्वादुरससंपादितः गोलाकारो मोदकादिपदार्थः, अथवा गुडधृतशर्करादिवस्तुना पिण्डितो हस्ते ग्रहणयोग्यः पदार्थः पिण्ड उच्यते, स पिण्डक', लोचकं दुग्धादिविकृतिनिष्पन्नं भोज्यवस्तुजातम्, अथवा 'मावा' इति प्रसिद्ध खाद्यवस्तुजातं लोचकं कथ्यते, यस्य ग्रहणे हस्तौ खरण्टयेते तत् , क्षीरं वा दग्धम् , दधि वा, नवनीतं म्रक्षणं 'मक्खन' इति प्रसिद्धम् सर्पिः-घृतं वा, तैल वा, फाणितं द्रवितगुडरूपं गुडस्यपूर्वरूपं वा, प.-अप्पः 'मालपूआ'-पदवाच्यो वा, शकुली 'पुडी' इति प्रसिद्धा शिखरिणी शर्करायक्तदधिविकृतिरूपा शिखण्डपदवाच्या वा, एतानि आर्द्रशुष्करूपाणि भक्याणि यदि उत्क्षिप्तानि विक्षिप्तानि व्यतिकीर्णानि विप्रकीर्णानि इतस्तत. प्रसृतानीत्यर्थः, एषां प्रत्येकपदानां पृथक् पृथग् व्याख्या शालिबीजसूत्रे गता तत्रतोऽवसेया, तदा निर्ग्रन्थानां वा निर्ग्रन्थीनां वा ऋतुबद्धकाले वा चातुर्मासे वा कमिश्चिदपि काले यथालन्दमपि क्षणमात्रमपि आर्द्रहस्तरेखाशोषणकालमात्रमपि तत्र वस्तुं न कल्पते । तत्र वासे गमनागमनेन वस्तुविनाशसंभवस्तेन तदधिपतेर्मनसि साधु प्रति दुर्भावो जायते, लोके साधोस्तदतपदार्थलोलुपता लक्ष्यते बालग्लानसाधूनां तद्भक्षणाकाङ्क्षाऽपि संभवेत् , इत्यादिदोषसंभवात्निर्ग्रन्थनिर्ग्रन्थीभि. क्षणमात्रमपि न तिष्ठेदिति भावः ।। सू० ८॥ . अथ तत्रापि ऋतुबद्धकालयोग्योपाश्रयवासविधिप्रतिपादकं द्वितीयं सूत्रमाह-'अह पुण' इत्यादि । सूत्रम्--अह पुण एवं जाणेज्जा-( उवस्सयस्स अंतो वगडाए पिंडए वा०) नो उक्खित्ताइवा, नो विक्खित्ताई वा नो विइकिण्णाई वा नो विपकिण्णाई वा (किन्तु) रासि
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy