________________
wwwwwwww
चूर्णिमायावचूरी उ० २ सं० ६-६ सचित्तप्रतिबद्धोपाश्रयनिवास विधि ४३
साम्प्रतमग्निकायप्रतिबद्धोपाश्रयसूत्रमाह-'उवस्सयस्स० सव्वराईए' इत्यादि ।
सूत्रम्-उवस्सयस्स अंतो वगडाए सब्बराईए जोई झियाएज्जा नो कप्पड़ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए, हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्ना एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, जे तत्थ एगरायाओ वा दुरायाओ वा परं वसइ से संतरा छेए वा परिहारे वा ॥ सू०६ ॥
छाया-उपाश्रयस्य अन्तर्वगडायां सार्वरात्रिकं ज्योतिः ध्मायेत् नो कल्पते, निम्रस्थानां वा निग्रन्थीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रयं प्रतिलिखन् नो लभेत एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, यस्तत्र एकरावाद्वा द्विरात्राद्वा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ॥ सू०६॥
चूर्णी-- 'उवस्सयस्स' इति । इदमपि सूत्रं सुराविकटकुम्भसूत्रवदेव व्याख्येयम्, विशेषस्त्वयम्-अत्र सव्वराईए जोई झियाएब्जा इति वाच्पम्, तस्यायमर्थः-सार्वरात्रिक-परिपूर्णरात्रिव्यापकं ज्योतिः अग्निकायः ध्मायेत् प्रज्वलेत् , शेषं पूर्ववत् । साधूनामत्र वासे यत्राग्निकायविराधना तत्र षट्कायविराधना स्यादतः षट्कायविराधनादोष आपद्येत । अन्योपाश्रयालाभे एकद्विरात्रं वस्तुं कल्पते इति कारणजातेऽपवादः ।। सू०६ ।।
अथ प्रदीपप्रतिबद्धोपाश्रयसूत्रमाह-'उबस्सयस्स० पईवे' इत्यादि ॥
सूत्रम्--उवस्सयस्स अंतो वगडाए सबराईए पईवे पईवेज्जा नो कप्पइ निग्गंथाण वा निग्गंथीण वा अहालंदमवि वत्थए, हुरत्था य उवस्सयं पडिलेहमाणे नो लभेज्जा एवं से कप्पइ एगरायं वा दुरायं वा वस्थए, जे तत्थ एगरायाओ वा दुरायाओ वापरं वसइ से संतरा छेए वा परिहारे वा ॥ सू०७ ॥
छाया-उपाश्रयस्यान्तवंगडायां सार्वरात्रिका प्रदीप प्रदीप्येत, नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा यथालन्दमपि वस्तुम्, हुरत्था च उपाश्रय प्रतिलिखन् नो लमेत एवं तस्य कल्पते एकरात्रं वा द्विरात्रं वा वस्तुम्, यस्तत्र एकरात्राद्वा द्विरात्राद्वा परं वसति तस्य स्वान्तरात् छेदो वा परिहारो वा ।। सू०७॥
चूर्णी-उवस्सयस्त' इति । इद प्रदीपसूत्रमपि सुराविकटकुम्भसूत्रवदेव व्याख्येयम् , विशेषस्त्वयम्-'सबराईए' सार्वरात्रिकः परिपूर्णरात्रिव्यापकः संपूर्णरात्रिं यावत् प्रदीपः तैलप्रदीपो विद्युत्प्रदीपो वा दीप्येत प्रज्वलेत् तदा तत्र यथालन्दमपि निर्ग्रन्थनिर्ग्रन्थीनां वस्तु न कल्पते अन्योपाश्रयाभावे एकद्विरात्रं तत्र वस्तुं कल्पते, इत्यादि पूर्ववद् व्याख्या कर्तव्येति । अग्न्यारम्मे साधूनां वस्तुं न कल्पते तत्र पूर्ववदेव षट्कायविराधनादयो दोषाः संभवेयुः दीपेषु पततां पतङ्गादिप्राणिनां विराधनासंभवः, उपध्यादिषु तेषां पतनात् साधुशरीरेणापि विराधना स्यात् , इत्यादिदोषसंघातसभवात् , अपवादे अन्योपाश्रयालाभे एकद्विरात्रं कल्पतेऽपि, इति सूत्राशयः ।। सू०७ ॥