________________
चूर्णिभाष्यावचूरी उ० १ सू० २-५
प्रलम्वप्रकरणम् ३ चूर्णी-कप्पइ कल्पते निगंथाणं निर्ग्रन्थानां निग्गंथीणं निर्ग्रन्थीनां पूर्वप्रदर्शितस्वरूपाणां साधूनां साध्वीनां च आमे आमं अपकं तालप्रलम्बं वृक्षविशेषस्य लम्बं फलं कदलीफला दिकं यदि भिन्नं द्रव्यतो भावतश्च शस्त्रपरिगतमचित्तं भवेत्तदा पडिग्गाहित्तए प्रतिग्रहीतुम् कल्पते भिन्नस्य शस्त्रपरिणतत्वेन सचित्तत्वदोपराहित्यात् ॥सू० २१॥
पूर्व सामान्येन निषेधो विधिश्च प्रदर्शितः, साम्प्रतं विशेषमाह-कप्पइ' इत्यादि ।
मूलम्-कप्पइ निग्गंथाणं पक्के तालपलंबे भिण्णे वा अभिण्णे वा पडिगाहित्तए ॥ सू० ३॥
छाया-कल्पते गिर्ग्रन्थानां पक्वं तालप्रलम्ब भिन्नमभिन्नं वा प्रतिग्रहीतुम् ।।सू०३।।
चूर्णी-कप्पइ कल्पते निग्गंथाणं निर्ग्रन्थानां श्रमणानां पक्के तालपलंबे पक्वं तालप्रलम्ब कदलीफलादिकं दीर्घफलं भिण्णे वा अभिण्णे वा भिन्नं वा अभिन्नं वा द्विविधमपि पडिगाहित्तए प्रतिग्रहीतुं कल्पते । पक्कमिति यदचित्तं तत् कल्पते, साधूनामाकृतिजनितदोषाभावात् ।।सू०॥३॥
अथ निम्रन्थीनां पक्कस्याप्यभिन्नस्य ग्रहणे निषेधमाह—'नो कप्पई' इत्यादि । मूलम् -नो कप्पइ निग्गंधीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए ॥४॥ छाया-नो कल्पते निर्ग्रन्थीनां पक्व तालप्रलम्बं अभिन्न प्रतिग्रहीतुम् ॥सू०४॥
चूर्णी-नो कप्पइ नो नैव कल्पते निग्गंथीणं निम्रन्थीनां साध्वीनां पक्के तालपलवे पक्कमपि तालप्रलम्बं यत् अभिन्ने अभिन्नम् अविदारितं अखण्डमित्यर्थः, तत् पडिगाहित्तए प्रतिग्रहीतुं न कल्पते, निर्ग्रन्थीनां तदाकृतिजन्यदोपप्राप्तिसद्भावात् ॥सू०४॥
साम्प्रतं पक्वस्य तालप्रलम्बस्य ग्रहणे साध्वीनां विधिं प्रदर्शयति-'कप्पइ' इत्यादि ।
मूलम्-कप्पइ निग्गंथीणं पक्के तालपलंवे भिन्ने पडिगाहित्तए, सेवि य विहिभिण्णे नो चेव णं अविहिभिण्णे ॥स०५॥
छाया-कल्पते निर्ग्रन्थीनां पक्वं तालप्रलवं भिन्न प्रतिग्रहीतुम् , तदपि च विधिभिन्न नैव खलु अविधिभिन्नम् ॥सू० ५॥
चूर्णी-कप्पइ कल्पते निग्गंथीणं निर्ग्रन्थीनां पक्के तालपलंबे पक्वं तालप्रलम्ब भिण्णे भिन्न खण्डितं यदि भवेत्तदा पडिगाहेत्तए प्रतिग्रहीतुं कल्पते, किन्तु सेवि य णं तदपि च भिन्नमपि च खलु यदि विहिभिन्न विधिभिन्नं विधिना उचितप्रकारेण फलकर्त्तनविधिना यदि भिन्नं भवेत्तदा कल्पते नो चेव णं नैव खल अविहिभिन्नं 'अविधिभिन्न कल्पते, विधिभिन्नमिति किमप्याकारविशेषमधिकृत्य खण्डितं न भवेत् तत् , अविधिभिन्नं तु यत् कमप्याकारविशेपमधिकृत्य खण्डितं भवेत्तन्न कल्पते इति भावः पासू०५॥ अत्र गाथात्रयमाह भाष्यकार: