SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे सूत्रगताक्ष मालागत रत्नवत् विपर्यस्ताक्षरविन्यासपूर्वकमुच्चारणम् ३ । होनाक्षरम् - यद् रेम्यः कानिचिदक्षराणि हीनानि कृत्वा उच्चारणम् ४ | अधिकाक्षरम् - यत् सूत्रे स्वबुद्ध्याऽक्षराणि अधिकानि संयोज्योच्चारणम् ५ । व्यत्याम्रेडितम् - यद् एकस्य शास्त्रस्य वचनेऽन्यान्यशास्त्रवचनानां संमिश्रणं कृत्वोच्चारणम् ६ । अपरिपूर्णम् - यद् मात्रापदचरण विन्दुवर्णादिभिरपरिपूर्णतयोच्चारणम् ७ । अपरिपूर्णघोषम् - यद् उदात्तानुदात्तस्वरितरूपैः घोषैरपूर्णमुच्चारणम् ८ । अकण्ठौष्ठविप्रमुक्तम् यत् कण्ठौष्टताल्वादिभिरविमुक्तमेवेति वर्णानां कण्ठौष्ठस लग्नत्वेनाव्यक्तमस्पष्टमुच्चारणम्, अथवा वर्णानां कण्ठौष्ठादितत्तत्स्थानरहितमेवोच्चारणम् ९ | अगुरुवाचनागतमिति - अगुरुवाचनोपगतम् - यद् गुरुप्रदत्तवाचनया न प्राप्तं, गुरुतो वाचनामप्राप्यैवोच्चारणम् १० । इति । इत्यादिदोषरहितं सूत्रमुच्चारणीयमित्यस्य शास्त्रस्य प्रथमं सूत्रमाह'नोक पइ' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा आमे तालपलंचे अभिन्ने पsि - गाहिए ||०२|| छाया -नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा आमं तालप्रलम्यं अभिन्नं प्रतिनहीतुम् ॥ सू० १॥ 3 चूर्णी - 'नो कप्पइ'न कल्पते निग्गंथाणं निर्मन्थानाम्, -निर्-निर्गता' ग्रन्थात् बाह्याभ्यन्तररूपात, तत्र बाह्य ग्रन्थः क्षेत्र वास्तु- हिरण्य- सुवर्ण-धन-धान्य- द्विपद-चतुष्पद - कुप्य - रूपो नवविधः, आभ्यन्तरः-राग-द्वेष-क्रोध-मान-माया - लोभ-हास्य- रत्यरति मिध्यात्व- वेद-भय-शोक-जुगुप्सारू पश्चतुर्दशविधः, ताभ्यां द्विविधाभ्यामपि ग्रन्थाभ्यां निर्गता निर्ग्रन्थाः श्रमणास्तेषाम् एवं निग्गंथीणं निर्ग्रन्थीनां पूर्वोक्तलक्षणवतीनां साध्वीनां आमे आमम् अपकम्, यत् तालपलंबे, तालप्रलम्बम्, तलो वृक्षविशेषस्तत्र भवं तालं वृक्षविशेषसम्बन्धि, पलम् - प्रलम्बते इति प्रलम्बं प्रकर्षेण लम्ं वा प्रलम्ब लम्बायमानमाकृतिनो दीर्घं कदलीफलादिकं अभिन्ने अभिन्नं, भिन्नं द्रव्यतो भावतश्च द्विविधम्, तत्र द्रव्यतो भिन्नं क्षुरिकादिना विदारितं, भावतो. भिन्नं व्यपगत जीवमचित्तमित्यर्थः तद्विपरीतम् अभिन्नं शस्त्रापरिणतत्त्वेन सचित्तमित्यर्थः तादृश तालप्रलम्बं पडिगाहित्तए प्रतिग्रहीतुम्-आदातुं न कन्पते इति पूर्वेण सम्बन्धः, आमफलस्य सचित्तत्वसद्भावात् । सू० १॥ अथ यादृशं तालप्रलम्बं कल्पते तदेव प्रदर्शयति- 'कप' इत्यादि । २ मूलम् - कप्पइ निग्गंथाणं वा निग्गंथीणं वा आमे तालपलम्वे भिन्ने पडिणाहित्तए ||०२|| छाया - कल्पते निर्ग्रन्थानां वा निर्मन्थीनां वा आमं तालप्रलम्वं भिन्नं प्रतिग्र हीतुम् ॥सू०२ |
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy