________________
व्यवहारसूत्रे
द्वितीयस्तु वैयावृत्त्यनिर्वाहकत्वाद् दृढधर्मा यो गृहीतं वैयावृत्त्यं यावत्कालं तदावश्यकता भवेत्तावत्कालपर्यन्तं निर्वाहर्यात, नो प्रियधर्मा योऽप्रियधर्मतया महता कष्टेन कथं कथमपि प्रथमं वैयावृत्त्यं ग्राह्यते सर्वसाधारणवैयावृत्य करणभावराहित्यात्, स एष द्वितीयभङ्गवर्त्ती २ । उभयतः कल्याणकरस्तृतीयभङ्गवर्त्ती ३ । चतुर्थस्तु न प्रियधर्मा नापि दृढधर्मा, इत्याकारको गच्छनिराकृतो ज्ञातव्य ४ ॥ सू० १३ ॥
૪
साम्प्रतमाचार्यपदमधिकृत्य चतुर्मङ्गीमाह - ' चत्तारि' इत्यादि ।
सूत्रम् - चत्तारि आयरिया पन्नत्ता, तंजहा - पव्त्रायणायरिए नाम एगे णो उचट्ठावणायरिए १, उबद्वावणायरिए नाम एगेनो पव्वायणायरिए २, एगे पञ्चायणायfree उद्वावणारिवि २, एगे नो पन्चायणायरिए नो उवहावणायरिए ४ धम्मायरिए ४ ।। सू० १४ ॥
छाया - चत्वार आचार्याः प्रज्ञप्ताः, तद्यथा- प्रवाजनाचार्यों नामैको नो उपस्थापनाचार्यः १, उपस्थापनाचार्यो नामैको नो प्रवाजनाचार्यः २, एकः प्रवाजनाचार्योऽपि उपस्थापनाचार्योऽपि ३, एको नो प्रवाजनाचार्यो नो उपस्थापनाचार्यो धर्माचार्यः ४ ॥ सू० १४ ॥
भाष्यम् – 'चत्तारि' चत्वारः आयरिया पन्नत्ता' आचार्याः - गणनायकाः तत्र - आचार्य - लक्षणं यथा
आचिनोति च शास्त्रार्थम्, आचारे स्थापयत्यपि । स्वयमाचरते यस्मात्, तस्मादाचार्य उच्यते ॥१॥
अस्यार्थः - :- यस्मात् कारणात् शास्त्रार्थ - शास्त्रप्रतिपाद्यं वस्तु - पदार्थजातम् आचिनोतिएकत्रीकरोति - शास्त्रप्रतिपादितपदार्थजातं स्वमनसि अवधारयति, तथा शास्त्रप्रतिपादितसाधुमर्यादापरिभ्रष्टान् साधून् आचारे - शास्त्रप्रतिपादितव्यवहारे स्थापयति, शास्त्रप्रतिपादितपदार्थान् जीवाजीवादिकान्-अवबोधयति, तथा स्वयमाचरति - शास्त्रप्रतिपादितं समिति गुप्त्यात्मकं श्रमणधर्ममाचरति, स्वयं पालयति, तस्मात्कारणात् स आचार्य इति कथ्यते ।
एतादृशा आचार्याश्चतुष्प्रकारकाः प्रज्ञप्ताः । सम्प्रति तानेव चतुरो भेदान् दर्शयितुमाह'तंजहा' इत्यादि, 'तंजहा' तद्यथा - 'पन्चायणायरिए नाम एगे नो उवद्वावणारिए' प्रव्रजनाचार्यो नामैको न तूपस्थापनाचार्य', केवलं प्रत्राजयति-- सम्यक्त्वोत्पादनेन दीक्षोन्मुखं कृत्वा सामायिकचारित्रं ददाति न तु छेदोपस्थापनीयचारित्रे उपस्थापयति स प्रथमः १ ।
'उवट्टावणायरिए नामसेगे नो पव्वायणायरिए' उपस्थापनाचार्यो नामैको नो प्रव्राजनाचार्यः, सम्यक्त्वे-उपस्थितान् पञ्च महात्रते उपस्थापयति न प्रत्राजयति-न दोक्षां ददातीति द्वितीयः २ ।