________________
भाष्यम् उ १० सू० १३-१४
चतुष्प्रकाराचार्यस्वरूपनिरूपणम् २५३ धर्मं जिनाज्ञारूपं यद् योग्यं साधुमन्यगच्छीयं वाचयेदित्येतादृशं धर्मे न व्यक्तवान्, एष द्वितीयः २ । तृतीयो धर्म - गणसंस्थितिरूपमुभयमपि जहाति, यथा अयोग्यस्य वाचनादानाद्धर्म त्यक्तवान्, अन्यगच्छीयस्य वाचनादानाद् गणसंस्थितिमपि त्यक्तवान्, एष तृतीयः ३ । चतुर्थः पुनरुभयमपि न त्यजति, यथा - अन्यगच्छीय साधोः शिष्यम् 'अयं मेधावी प्रवचनोपग्रहकरो भविष्यतीत्यादिगुणयुक्तमुपलभ्य तच्छेदप्रायश्चित्तदानेन स्वशिष्यं कृत्वा वाचयति तेन धर्मं तीर्थकराज्ञारूपं न व्यक्तवान्, स्वशिष्यत्वेन कृतस्य वाचनादानाद् अन्यगच्छीयवाचनादाननिषेधरूपां गणमर्यादामपि न त्यक्तवान्, एष चतुर्थः ४ । एतमुभयं - गणसंस्थितिं धर्मे चावलम्बमानं महापुरुष वन्दामहे । इति सूत्रस्पष्टार्थः ॥ सू० १२ ॥
अथ प्रियधर्म-दृढधर्मेतिपदद्वयमधिकृत्य चतुर्भङ्गीमाह - ' चत्तारि' इत्यादि ।
सूत्रम् - चत्तारि पुरिसजाया पम्नत्ता, तंजहा -पियधम्मे णामं एगे नो दढ़मे १, धम्मे नाम एगे, नो पियधम्मे २, एगे पियधम्मेवि दढम्मेवि, ३, एगे नो पियम् नो दधम्मे ४ ॥ सू० १३ ॥
छाया [ - चत्वारः पुरुषजाताः प्रज्ञप्ताः, तद्यथा - प्रियधर्मा नामैको नो दृढधर्मा १, धर्मा नामैको नो प्रियधर्मा २, एकः प्रियधर्माऽपि दृढधर्माऽपि ३, एको नो प्रियधर्मा नो दृढधर्मा ४ || सू० १३ ॥
भाष्यम् – 'चत्तारि' चत्वारः 'पुरिसजाया पन्नत्ता' पुरुषजाताः -- पुरुषप्रकाराः प्रज्ञप्ताः, तानेव चतुष्प्रकारान् दर्शयितुमाह - ' तं जहा ' इत्यादि, 'तंजहा' तद्यथा- - "पियधम्मे नामं एगे नो दढम्मे' प्रियधर्मा नामैको नो दृढधर्मा, तत्र- प्रियः सर्वेभ्योऽपि अभिलाषयोग्यो घर्मो यस्य स प्रियवर्मा, नो दृढधर्मा, धर्मे दृढा - निश्चला मतिर्यस्य स तथा तादृशो न, सोऽयं प्रथमः १, दढम्मे णाममेगे नो पियधम्मे २' दृढधर्मा धर्मे दृढा मतिर्भस्य स तथा तादृशः किन्तु प्रियधर्मा न धर्मस्तु न तादृशः प्रियः २ । 'एगे प्रियधम्मेवि दढधम्मेवि' एकः प्रियधर्माऽपि दृढधर्माऽपि स चायं तृतीयः ३ । 'एगे नो पियधम्मे नो दधमे ४ एकः पुरुषो न प्रियधर्मा न वा दृढधर्मा, एष चतुर्थ ४ ॥
अत्रायं भावः - प्रियधर्मा सः यो यस्माद् वाचनादि गृह्णाति तस्य द्रव्यत आहारादिना, भावतो मन.सुप्रणिधानादिना वैयावृत्त्ये उपतिष्ठने न कालान्तरेऽन्यस्योपतिष्ठते, दृढधर्मार्वे मविशेषेण वैयावृत्त्ये उपतिष्ठते सर्वत्र निरतिचारश्चेति, अयं प्रियधर्म - दृढधर्भयोर्विशेषः । प्रथमभङ्गभावना यथा-प्रथमः पुरुषो दशप्रकारकस्य वैयावृत्त्यस्याग्रे वक्ष्यमाणस्याऽन्यतमस्मिन् वैयावृत्त्ये प्रियधर्मतया झटित्युद्यमं करोति किन्तु अदृढधर्मतयाऽत्यन्तं न निर्वहति तस्याल्पधृतिवीर्यत्वादिति प्रथमो भो भवति १ ।