________________
२४४
व्यवहारसूत्र व्युच्छेदो भविष्यति तदा शेपैर्व्यवहारैर्व्यवहर्त्तव्यं भविष्यतीति कृत्वा श्रुतादिव्यवहारानपि सूत्र निबद्धवन्तः । तत्रापि व्यवहारः क्षेत्रं काल च प्राप्य यो यथा संभविष्यति, तेन तथा व्यवहारः करणीयो भविष्यतीति।
मयं भावः-यस्मिन् यस्मिन् काले यो यो व्यवहारो व्यवच्छिन्नोऽव्यवच्छिन्नो वा भविध्यति तस्मिन् तस्मिन् काले प्रागुक्तक्रमेण साधवो व्यवहारं व्यवहरिष्यन्ति । तथा यस्मिन् यस्मिन् क्षेत्रे युगप्रथानैराचार्यादिभिर्यां यां व्यवस्थां व्यवस्थापयिष्यन्ति तया तया व्यवस्थया अनिश्रितोपश्रितं व्यवहारः प्रवर्तितो भविष्यतीति विचार्य आगमादिपञ्चव्यवहारसूत्रं ते निवद्धवन्त इति ।
अपि च-आगमादिका धारणान्ताश्चत्वारो व्यवहाराः यावतीर्थप्रवृत्तिस्तावद् भविष्यति, जीतव्यवहारस्तु यावच्चतुर्विधः सद्धः प्रचलिष्यति तावत्कालपर्यन्तं स्थास्यति तस्मात् कारणात् जीतव्यहारोपादानं कृतमिति विवेकः ।
सूत्रे यदुक्तम्-सूत्रोक्तव्यवहारं व्यवहरन् श्रमणो निर्ग्रन्थ आज्ञया आराधको भवतीति, सा चाऽऽराधना खल त्रिप्रकारिका भवति यथा-उत्कृष्टाऽऽराधना १, मध्यमाऽऽराधना २, जघन्याऽऽराधना च । तत्रोत्कृष्टाया आराधनायाः फलम् ---एको भवः, मध्यमाया आराधनायाः फलम् द्वौ भवौ, जघन्याया माराधनायाः फलम्-त्रयो भवाः । अथवा यदि तद्भवे मोक्षो न जातस्तदा उत्कृष्टाया आराधनायाः फलम्-जघन्यसंसरणम् द्वौ भवौ । मधयमाया आराधनायास्त्रयो भवाः, जघन्याया आराधनाया उत्कृष्टा अष्टौ भवा भवेयुरित्याराधनायाः फलं विज्ञेयम् ।
सूत्रोक्तव्यवहारपदव्याख्या यथा-येनाऽऽगमादिना श्रमणो व्यवहरति-व्यवहारं करोति सोऽप्यागमादिर्व्यवहारः, व्यवह्रियतेऽनेनेति व्युत्पत्या-आगमादेरपि व्यवहारत्वात, यद्यपि व्यवहर्त्तव्यं वस्तुप्रतिक्रमणप्रतिलेखनादिकं मुनिर्व्यवहरति सोऽपि व्यवहार एव । व्यवहियते यः स व्यवहार इति कर्मसाधनात् तदेवं करणे कर्मणि उभयत्रापि व्यवहारशब्दः प्रयुज्यते शाब्दिकमर्यादाबलात् ।। सू० ५॥
पूर्व व्यवहाराः प्रदर्शिताः, ते च पुरुषाधीना भवन्तीति तान् सम्यग्ज्ञानवन्तः पुरुषा एव व्यवहर्तुमर्हन्तीति । पुरुषाश्चार्थकरा मानकरा इति द्विविधा भवन्तीति तेषां चतुर्भङ्गी प्रदर्यते'चत्तारि' इत्यादि।
सूत्रम्-चत्तारि पुरिसजाया पन्नत्ता तंजहा-अट्ठकरे नाम एगे नो माणकरे १, माणकरे णामं एगे नो अट्टकरे २, एगे अट्ठकरे वि माणकरे वि ३, एगे नो अट्ठकरे नो माणकरे ॥ सू०६॥