________________
भाग्यम् उ० १० सू० ५
आगमादिपञ्चविधत्र्यवहारनिरूपणम् २४३ जीए' यथा यथा आगम: १, श्रुतम् २, आज्ञा ३, धारणा ४, जीतम् ५ 'तदा तहा वबहारं पट्टवेज्जा' आगमव्यवहारिणोऽभावे तथा तथा तेन तेन श्रुतव्यवहार्यादिप्रकारेण व्यवहारं प्रस्थापयेत् । ' से किमाहु भंते ?' अथ किमेवमाहुर्भदन्त ! हे भदन्त ! कथमेवं कथयसि यत् प्रथममागमव्यवहारिणैव व्यवहारं प्रस्थापयेदित्यागमस्य प्राथम्यं ददाति ? तत्राह - ' आगमवलिया समणा णिग्गंधा' आगमवलिकाः आगम एव बलं येषां ते आगमवलिकाः आगमाधारवन्त एव श्रमणा निर्ग्रन्धा भवन्ति, आगमबलेनैव श्रमणा निर्ग्रन्था आगमेनैव व्यवहरन्ति, आगमस्य तीर्थकरैः स्वमुखोच्चरितत्वादिति । 'इच्चेयं पंचविहं ववहारं ' इत्येतं - पूर्वप्रदर्शितं पञ्चविधं पञ्चप्रकारकं व्यवहारम् ; 'जया जया जहिं जहि' यदा यदा यत्र यत्र ये ये आगमादिव्यवहाणि भवन्ति 'तया तया तर्हि तर्हि' तदा तदा तत्र तत्र तेषां तेषा समीपे, 'अणिस्सिओस्सियं' अनिश्रितोपश्रितं यथा स्यात्तथा कस्यापि निश्रां वर्जयित्वा यथा अमुकस्य निश्रयाssलोचनां करोति तदा-स न्यूनं प्रायश्चित्तं दास्यतीत्येवंरूपां निश्रां विवर्ज्य 'ववहरमाणे समणे णिग्गंथे आणाए आराहए भवइ' व्यवहरन् - व्यवहारं कुर्वन् श्रमणो निर्ग्रन्थः आज्ञायाः - तीर्थकराज्ञाया आराधको भवतीति ॥
अत्राssगमादिपञ्चसु व्यवहारिषु क्रमेण व्यवहारः प्रस्थापयितव्यः, यदि व्युत्क्रमेण व्यवहरति तदा चत्वारो गुरुमासाः प्रायश्चित्तं भवति, अयं भावः — आगमे विद्यमाने श्रुतादिभिर्व्यवहारं करोति । श्रुते विद्यमाने आज्ञादिभिर्व्यवहरति । आज्ञाव्यवहारे विद्यमाने धारणाव्यवहारं प्रस्थापयति । धारणायां विद्यमानायां जीतेन व्यवहारं प्रस्थापयति । इत्येवं व्युत्क्रमेण व्यवहारप्रस्थापने साधुश्चतुर्गुरुकादिप्रायश्चित्तभाग् भवतीति विज्ञेयम् । प्रथमं मुख्यतया आगमव्यवहारिसमीपे एवालोचना कर्त्तव्या भवेत् । आगमव्यवहारिणोऽपि परविधा भवन्ति तत्रापि क्रमेणैव व्यवहारः प्रस्थापनीय', यथा प्रथमं केवलज्ञानिसमीपे मालोचना कर्त्तव्या स चालोचकस्य सर्वमतिचारं जानाति, न तस्य समीपे माया कर्त्तुं शक्यते १ तदभावे मनः पर्यवज्ञानिपा २, तदभावेमवधिज्ञानिपार्श्वे ३, तदभावे चतुर्दशपूर्वधरसमीपे ४, तदभावे दशपूर्वघरसमीपे ५, तदभावे नवपूर्वधरसमीपे ६, आलोचना ग्रहीतव्या । पूर्वपूर्वाऽभावे उत्तरोत्तरो ग्राह्यः । एवमग्रे श्रुतव्यवहारादिविषयेऽपि मर्यादा वोव्या ।
ननु यस्मिन् काले भगवन्तो गणधराः 'ववहारे पंचविहे पन्नत्ते' इत्यादि सूत्रं निवद्ववन्तस्तस्मिन् कालेऽवाधितरूपेणाssगम आसीदेव ततः कस्मात् कारणात् आज्ञादयो जीतान्ता व्यवहाराः सूत्रे तैर्निबद्धाः आगमादेव सर्वव्यवहारसंभवात्, न हि सूर्यप्रकाशसत्तायां चाक्षुष्ककार्य संपादनाय प्रदीपादीनामल्पप्रकाशानां सग्रहो भवति । अत्राह - तेऽवधिज्ञानादिना ज्ञातवन्तः, यत् स एतादृश. कालः समागमिष्यति यस्मिन् काले सूत्रमनागतविषयं भविष्यति आगमस्य