________________
भाष्यम् उ० १० सू०-५
आगमादिपञ्चविधव्यवहारनिरूपणम् २४१ सिया जीएणं ववहारं पट्टवेज्जा, एएहिं पंचहि ववहारेहिं ववहारं पडवेज्जा तंजहा-आगमेणं सुएणं आणाए धारणाए जीएणं । जहा जहा आगमे सुए आणा धारणा जीए तहा तहा ववहारं पट्टवेज्जा । से किमाहु भंते ? आगमवलिया समणा णिग्गांथा । इच्चेयं पंचविहं ववहारं जया जया जहिं जहिं तया तया तर्हि तहिं अणिस्सिओवस्सियं ववहारं ववहारेमाणे समणे णिग्गंथे आणाए आराहए भवइ ॥ सू० ५ ॥
छाया-पञ्चविधो व्यवहारः प्रशप्तः तद्यथा-आगमः १, श्रुतम् २, आज्ञा ३, धारणा ४. जीतम् ५, यत्रैव तत्रागमः स्यात् । आगमेन व्यवहारं प्रस्थापयेत् १, नो अथ तत्रागमः स्यात् यथा अथ तत्र श्रुतं स्यात् श्रुतेन व्यवहारं प्रस्थापयेत् २, नो अथ तत्र श्रुतं स्यात् यथा अथ तमाशा स्यात् आशया व्यवहारं प्रस्थापयेत् ३, नो तत्राज्ञा स्यात् यथा अथ तत्र धारणा स्यात् धारणया व्यवहारं प्रस्थापयेत् ४, नो अथ तत्र धारणा स्यात् यथा अथ तत्र जीतं स्यात् जोतेन व्यवहारं प्रस्थापयेत् ५, । एभिः पञ्चभिर्व्यवहारैर्व्यवहारं प्रस्थापयेत् तद्यथा-आगमेन, श्रुतेन, आशया, धारणया जीतेन, यथा यथा आगमः श्रुतम् आशा धारणा जीतम् तथा तथा व्यवहारं प्रस्थापयेत् । अथ किमाहुर्भदन्त !, आगमवलिकाः श्रमणा निर्ग्रन्थाः । इत्येतं पञ्चविधं व्यवहारम् यदा यदा यत्र यत्र तदा तदा तत्र तत्र अनिधितोपश्रितं व्यवहारं व्यवहरन् श्रमणो निम्रन्थः आज्ञया आराधको भवति ॥ सू०५॥
भाष्यम्-'पंचविहे ववहारे पन्नत्ते' पञ्चविधः पञ्चप्रकारको व्यवहारः, तत्र-व्यवहरतीति व्यवहारः प्रज्ञप्तः-कथितः, तमेव पञ्चविधत्वं दर्शयितुमाह-'तंजहा' इत्यादि, 'तंजहा' तद्यथा-'आगो' आगमः, तत्राऽऽगच्छति प्राप्तो भवति मोक्षरूपोऽर्थोऽनेन, ज्ञानदर्शनचारित्ररूपो वाऽर्थोऽनेन इत्यागमः द्वादशाङ्गगणिपिटकरूपः साधूनां प्रवृत्तिनिवृत्तिरूपो व्यवहार इत्यर्थः, अत्र गुणगुणिनोरभेदोपचाराद् गुणेन गुणी गृह्यते तेन आगम इति आगमव्यवहारी स च केवलज्ञानी १, मनःपर्यवज्ञानी २, अवधिज्ञानी ३, चतुर्दशपूर्वधरः ४, दशपूर्वधरः ५, नवपूर्वधरश्चेति षडेते आगमव्यवहारिणो भवन्ति ६ ।।
एतेषु षट्सु उत्तरोत्तरं ग्राह्यः 'मुए' श्रुतम्-श्रुतव्यवहारी आचारप्रकल्पनिशीथादिसूत्रधारी, अत्र श्रुतशब्देन नवादिपूर्वाणामपि ग्रहणं भवति, तेन नवपूर्वादिधरा अपि सूत्रव्यवहारिणः कथ्यन्ते २। 'आणा' आज्ञा-आज्ञाव्यवहारी, यथा-केचिद्गीतार्था आचार्यादयः दूरदेशस्थिता जडावलक्षीणत्वेन विहृत्यागन्तुं न समर्था भवेयुस्तेषामाजया, तीर्थकराज्ञया शास्त्रद्वारा वा व्यवहरति प्रायश्चित्तादि ददाति स आज्ञाव्यवहारीति ३ । 'धारणा' धारणाव्यवहारी, यो धारणया व्यवहरति स धारणाव्यवहारी, धारणा नाम गीतार्थगुर्वादिभिः कस्मैचिद्दत्तां शोधि दृष्ट्वा तद्दत्ता शोधिं श्रुत्वा वा धार्यते सा धारणा कथ्यते तया व्यवह" धारणाव्यवहारी प्रोच्यते, यथा—यः कश्चिद् गीतार्थव्यवहारी कस्मैचित् प्रायश्चित्तादि ददाति तच्छृत्वा-तदुक्तं धारयित्वा यः प्रायश्चित्तं ददाति स धारणाव्यहारीति कथ्यते ४ । 'जीए' जीतम्-गुरुपरम्परागत
न्य, ३१