SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० १४-१६ सागारिकातकाहारग्रहणाग्रहणविधिः २०७ गृहात् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराए' एकद्वारायाम् एकमेव द्वारं यस्यां सा एकद्वारा तस्यामेकद्वारायामभिनिवगडायाम्, पुनश्च 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम् एक एव निष्क्रमणेति निष्क्रमणमार्गः प्रवेशेति प्रवेशमार्गश्च यत्र तथाभूतायाम् अभिनिवगडायाम् 'अन्तो' अन्तर्मध्ये-- एतादृशगृहस्याऽभ्यन्तरे 'सागारियस्स एगपयाए' सागारिकस्य एकप्रजायाम् एकस्यामेव प्रजायां - चुल्हिकायाम् यत्र चुल्हिकायाम् सागारिकः पचति तत्रैव तस्य स्वजनोऽपि रन्धनादिकं करोतीत्यर्थः, 'सागारियं चोवजीवइ' सागारिकं -- शय्यातरमाश्रित्य उपजीवति जीवनं यापयति । शेषं सर्वं पूर्वव्याख्यातवदेव वोध्यम् || सू० १३ ॥ सूत्रम् - सागारियस्स नायए सिया सागारियस्ल अभिनित्र गड़ाए एगदुवाराए एगनिक्मणपबेसाए तो सागारियस्स अभिणिपयाए सागारियं च उवजीवड़ तम्हा दावए नो से कप्पड़ पडिगाहित्तए । सू० १४ ॥ छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य अभिनिवगढ़ायाम् एकद्वारायाम् एक निष्कणप्रवेशायाम् अन्तः सागारिकस्य अभिनिप्रजायाम् सागारिकं चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १४ ॥ भाष्यम् – 'सागारियस्स' सागारिकस्य 'नायए सिया' ज्ञातकः स्यात् स च स्वजनः 'सागारियस्स अभिनिव्वगडाए' सागारिकस्य अभिनिवगड़ायाम् पृथग्गृहे इत्यर्थः किन्तु 'एगदुवाराए' एकद्वारायाम् - एकद्वारयुक्तायाम्, 'एगनिक्खमणपवेसाए' एकनिष्क्रमणप्रवेशायाम्, एक एव निष्क्रमणस्य प्रवेशस्य च मार्गों यत्र तादृश्यामेकवगड़ायाम् । 'अन्तो' अन्तर्मध्ये 'सागारियस्स अभिनिपयाए' सागारिकस्य अभिनिप्रजायाम् – पृथग्भूतायां चुल्हिका+ याम्, रन्धनादिकं करोति, इत्यादि सर्वं पूर्ववदेव व्याख्येयम् ॥ सू० १४ ॥ सूत्रम् - सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाए बाहिं सागारियस्स एगपयाए सागारियं चोवजीवइ तम्हा दावए नो से कप्पड़ पडिगाहित्तए । सू० १५ ॥ छाया - सागारिकस्य ज्ञातकः स्यात् सागारिकस्य अभिनिवगडायाम् एकद्वारायाम् एकनिष्क्रमणप्रवेशायाम् वह्निः सागारिकस्य एकप्रजायाम् सागारिक चोपजीवति तस्माद् दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० १५ ॥ 'भाष्यम् – 'सागारियस्स' सागारिकस्य - शय्यातरस्य 'नायए सिया' ज्ञातकः स्यात् स च 'सागारियरस' सागारिकस्य 'अभिनिव्वगडाए' अभिनिवगड़ायाम् - पृथग्भूतायां वसतौ पृथक् पृथग गृहे इति यावत्, किन्तु 'एगदुवाराए' एकद्वारायाम्, एग निक्खमणपवेसाए'
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy