SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ९ सू० ७-६ सागारिकदासादेराहारग्रहणाग्रहणविधिः २०३ गृहमध्ये 'भुजई' भुते, इत्यादि सर्व पूर्ववद् व्याख्येयम् । विशेषस्त्वयम्-अस्मिन् पञ्चमे सूत्रे शय्या तरेण प्रातिहारिकतया दत्तत्वात्तदाहारजातं साधूनां न कल्पते तत्र शय्यातरस्वत्वत्वात् ॥ सू० ५ ॥ षष्ठे सूत्रे च अप्रातिहारिकत्वेन दत्तत्वात्तदाहारजातं कल्पते इत्येतावदेवाऽन्तरं पञ्चमषष्ठसूत्रयोरिति ।। सू० ६ ॥ पूर्व दासादिकमधिकृत्याऽन्तर्वगडासूत्रद्वयं प्रोक्तम्, सम्प्रति बहिर्वगडासूत्रद्वयमाह'सागारियस्स' इत्यादि । सूत्रम्-सागारियस्स दासेइ वा, पेसेइ वा, भयएइ वा भइण्णएइ वा, वाहि वगडाए झुंजइ निहिए निसिहे पाडिहारिए, तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥सू०७॥ सागारियस्स दासेइ वा पेसेइ वा भयएइ वा भइण्णएइ वा वाहि वगडाए मुंजइ निहिए निसिढे अप्पाडिहारिए तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥ सू०८॥ छाया-सागारिकस्य दास इति वा प्रेष्य इति वा भृत्य इति वा भृतक इति वा यहिर्वगडायांभु ङ्क्ते निष्ठितान् निसृष्टान् प्रातिहारिकान् तस्मात् ददाति नो तस्य कल्पते प्रतिग्रहीतुम् ।। खु० ७॥ सागारिकस्य दास इति वा प्रेष्य इति वा भृत्य इति वा-भृतक इति वा वहिवंगडायां भुङ्क्ते निष्ठितान् निसृष्टान् अप्रातिहारिकान् तस्माद् ददाति, एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ८॥ भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य 'दासे इ वा दास इति वा, इत्यादि पूर्ववदेव वगडाया वहिर्दासादिभोजनग्रहणं सप्तमसूत्रे प्रातिहारिकत्वेन दत्तत्वान्न कल्पते ॥ सू० ७॥ ____ अष्टमसूत्रे च अप्रातिहारिकत्वेन दीयमानत्वात् कल्पते इति भावः ॥ सू० ८॥ अत्र सूत्राष्टकस्याय भावः-अत्रादितश्चत्वारि सूत्राणि बगडाया अन्तर्वहिरादेशमधिकृत्य कथितानि ४ । चत्वारि'च वगडाया अन्तर्वहिर्दासादिकमधिकृत्य कथितानि ४ (८) । तत्र-यत्र यत्र प्रातिहारिकं तत्र तत्र शय्यातरस्वत्वत्वात् शय्यातरपिण्ड इति न कल्पते । यत्र यत्र पुनरप्रातिहारिकं तत्र तत्र शय्यातरस्वत्वरहितत्वान्न सशय्यातरपिण्ड इति कल्पते साधूनां प्रतिग्रहीतुम् । यथा प्रथम-तृतीय-पञ्चमसप्तमसूत्रेषु शय्यातरपिण्डग्रहणदोषापत्तेरकल्प्यमाहरजातम् । द्वितीय-चतुर्थ-षष्ठाऽष्टमसूत्रेष शय्यातरस्वत्वरहितत्वान्न तत्र शय्यातरपिण्डत्वमिति तत् कल्प्यमिति ॥ अत्राऽऽशकते शिष्यः चत्वारि सूत्राणि आदेशविपयाणि, चत्वारि च दासादिविषयाणीति अष्टानां सूत्राणां पृथक् पृथक् कथन निरर्थकम्, आदेशस्य चतुर्थेव सूत्रेषु तेन सार्द्ध दासादीनामपि समावेशसंभवात् ? तत्राऽऽह-शृणु आदेशः कश्चिदपि कदाचिदागच्छति ततस्तस्याऽनि
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy