________________
व्यवहारसूत्र
छाया-अष्टकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थोऽल्पाहारः, द्वादशकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निम्रन्थोऽपार्धाऽवमौदर्यः, पोडशकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निर्ग्रन्थो द्विभागप्राप्तः, चतुर्विशतिकुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निम्रन्थस्त्रिभागप्राप्तः स्यादव. मौदर्यः, एकत्रिंशत्कुक्कुठाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निम्रन्थः किञ्चिदूनाऽवमौदर्यः, द्वात्रिंशत्कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् निम्रन्थः प्रमाणप्राप्तः । इत एकेनाऽपि कवलेन ऊनकमाहारमाहरन् श्रमणो निर्ग्रन्थो नो प्रकामभोजी-ति वक्तव्यं स्यात् ।। सू० १६ ॥
॥ व्यवहारे अष्टम उद्देशकः समाप्तः ॥८॥
भाष्यम्-'अट्टकुक्कुडिप्पमाणमेत्ते कवले' अष्टकुक्कुटाण्डप्रमाणमात्रान्-कुक्कुटाण्डप्रमाणान् , यः पुरुषस्य मुखे क्षिप्तः सन् सुखेन चय॑ते तथा गलान्तराले अविलग्न एव गले प्रविशति एतावत्प्रमाणमेव कवलमनोयादित्येतावत्प्रमाणः कवलः कुक्कुटाण्डशब्देनोपमीयते यतः कुक्कुट्या अण्डकमाकारप्रमाणेन सदा सर्वदा समानमेव भवति न न्यूनं नाधिकमिति तत्प्रमाणेन गृहीतम् , अन्यत्रापि चान्द्रायणव्रतादौ कवलोऽनेनैव शब्देनोपमितो लभ्यते उपमामात्रमेवेति । यस्य प्रमाणप्राप्त आहारो यावत्परिमितो भवेत्तस्य द्वात्रिंशत्तमो भागः कवलशब्देन गृह्यते ततस्तादृशान् अष्टौ कवलान् 'आहारं आहारेमाणे' प्रमाणप्राप्ताहाराच्चतुर्थांशरूपम् आहरन्-आहारं कुर्वन् 'णिगंथे' निर्ग्रन्थः श्रमणः 'अप्पाहारे' अल्पाहारो भण्यते । 'दुवालसकुक्कुडिअंडप्पमाणमेचे कवले आहारं आहारे माणे' कुक्कुटाण्डप्रमाणमात्रान् द्वादश कवलान् आहारं-प्रमाणप्राप्ताहारचतुर्थाशतः किञ्चिदधिकं द्वादशकवलप्रमितम् माहरन् ‘णिग्गंथे' निर्ग्रन्थः 'अवड्ढोमोयरिए' अपार्घावमौदर्यः कथ्यते । 'सोलसकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे' पोडशकुक्कुटाण्डप्रमाणमात्रान् कवलानाहारं-प्रमाणप्राप्तादर्धम् आहरन्-आहारं कुर्वन् 'णिग्गंथे' निर्ग्रन्थः 'दुभागपत्ते' द्विभागप्राप्तः-द्विभागेन ऊनोदरः कथ्यते । 'चउवीसंकुक्कुडिअन्डप्पमाणमेत्ते कवले' चतुर्विशतिकुक्कुटाण्डप्रमाणमात्रान् कवलान् ‘आहारं आहारेमाणे णिग्गथे' आहारमाहरन् कुर्वन् निम्रन्थः 'तिभागपत्ते सिया ओमोयरिए' त्रिभागप्राप्तः स्यात् अवमौदर्य इति कथ्यते । 'एगतीसंकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे' एकत्रिंशत्कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् ‘णिगंथे' निम्रन्थः 'किंचूणोमोयरिए' किञ्चिदूनाऽवमौदर्यः कथ्यते । 'वत्तीसंकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे' द्वात्रिंशत्कुक्कुटाण्डप्रमाणमात्रान् कवलान् आहारमाहरन् 'णिग्गथे' निर्ग्रन्थः 'प्रमाणपत्ते' प्रमाणप्राप्तः कथ्यतेः । 'एत्तो एगेणवि कवलेणं ऊणगं आहारं' इतः-द्वात्रिंशत्कुक्कु