________________
भाष्यम् उ० ८ सू०१६
अधिकपात्रादिवहनतदानविधिः १९७ धारयितुं परिग्रहीतुं वा कल्पते इत्यर्थः, यदुद्दिश्य गृहीतं तत्प्रकारं प्रदर्शयति-'सो वाणं धारेस्सई' स वाऽमुको निम्रन्थो यन्मया गृहीतं तद् धारयिष्यति ग्रहीष्यति, 'अहं वा णं धारेस्सामि' अहं वा तद् धारयिष्यामि, 'अन्नो वा धारेस्सइ' अन्यो वाऽमुको गणी वाचक उपाध्यायो वा तद् धारयिष्यति, स वा धारयिष्यति, इत्यादि विशेषितवचनम् , तेनाऽमुको गणी वाचकोऽन्यो वा श्रमणः स्यात्तस्येदं भविष्यतीति भावः, अहं वा धारयिष्यामि ममैव भविष्यतीत्यर्थः, स वा धारयिष्यति, इत्येवंप्रकारेण गृहीतं वस्त्रपात्रादिकम् 'नो से कप्इइ तं अणापुच्छिय अणामंतिय' नो-नैव तस्य-पात्रादिवाहकस्य कल्पते तं यदर्थे गृहीतं तं श्रमणं-वाचकं-गणिनमुपाध्यायं वा अनापृच्छ्य-तस्य पृच्छामन्तरेण, अनामन्त्र्य-यथा-गृह्णातु भो इदं वस्त्रपात्रादिकं यन्मम समर्पितम् , इत्येवं तमकथयित्वा 'अन्नमन्नेसि दाउं वा अणुप्पयाउं वा' अन्येषामन्येषां दातुं वा एकवारम्, अनुप्रदातुं वा वारं वारम्, यदर्थमतिरेकं पात्रादिकमुपकरणं गृहीतं धारितं तं व्यक्तिविशेषमनापृच्छचाऽनामन्त्र्य अन्यस्मै दातुमनुप्रदातुं वा न कल्पते 'कप्पइ से तं आपुच्छिय आमंतिय अन्नमन्नेसिं दाउं वा अणुप्पदा उं वा' कल्पते तस्य पात्रादिवाहकस्य तमापृच्छय आमन्त्र्य अन्येषामन्येषां दातुं वा अनुप्रदातुं वा, स श्रमणो यं व्यक्तिविशेषमुद्दिश्याऽतिरेकं वस्त्रपात्रादिकं गृहीतवान् तं व्यक्तिविशेष गणिनं वाचकमुपाध्याय वा पृष्टवा आमन्त्र्य-सम्यकू कथयित्वा ततो यस्मै कस्मैचिन्निर्ग्रन्थाय निम्रन्थ्या वा तदुपकरणं दात कल्पते इत्यर्थः ॥ सू० १५ ॥
पूर्वमुपधेरतिरेकविषये सूत्रमुक्तम् , सम्प्रति उपधेरतिरेकवदाहारातिरेको मुनिना न कर्त्तव्यः, यतः साधोत्रिंशत्कवलपरिमित आहारः प्रमाणप्राप्तः कथ्यते, ततो न्यूनाहारे साधुरल्पाहारादिविशेषणविशिष्टो भवतीति तत् प्रकारं प्रदर्शयन्नाह–'अट्ठकुक्कुडिअंड०' इत्यादि ।
सूत्रम्-अट्ठकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिगंथे अप्पाहारे, दुवालसकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिग्गंथे अवड्ढोमोयरिए, सोलसकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिग्गंथे दुभागपत्ते, चउवीसंकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिग्गंथे तिभागपत्ते सिया ओमायरिए, एगतीसंकुक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिग्गंथे किंचूणोमोयरिए, बत्तीसं कृक्कुडिअंडप्पमाणमेत्ते कवले आहारं आहारेमाणे णिग्गथे पमाणपत्ते । एत्तो एगेणवि कवलेणं ऊणगं आहारं आहारेमाणे समणे णिग्ग थे नो प्रकामभोई-त्ति वत्तव्वं सिया ॥ सू० १६॥
॥ ववहारे अठमो उद्देसो समत्तो ॥८॥