________________
व्यवहारसूत्र
सवित्तए' व्यवशमयितुम्-उपशमयितुं क्षमापयितुमित्यर्थः, निर्ग्रन्थीनां दूरदेशगमने स्त्रीशरीरत्वात् संयमात्मविराधनादिबहुदोषसंभवादिति ॥ सू० १३ ॥
पूर्व निर्ग्रन्थनिम्रन्थीनां व्यतिकृष्टाऽधिकरणक्षमापनविधिः प्रदर्शितः, सम्प्रति निम्रन्थमधिकृत्य व्यतिकृष्टकाले स्वाध्यायनिषेधमाह-'नो कप्पइ निग्गंथाणं' इत्यादि ।
सूत्रम्-नो कप्पड णिग्गंथागं विइगिट्टे काले सज्झायं करित्तए । सू०१४ ॥ छाया-नो कल्पते निर्ग्रन्थानां व्यतिकृष्टे काले स्वाध्यायं कर्तुम् ।। स्० १४ ।।
भाष्यम्-नो कप्पइ' नो कल्पते 'णिग्गंथाणं' निम्रन्थानाम् 'विइगिट्टे काले' व्यतिकृष्टे काले -विकृते विपरीते काले अस्वाध्यायकाले यस्य स्वाध्यायस्य यः कालविशेषो नितिः शास्त्रे तदतिरिक्ते काले, विकृतकालो द्विविधः-कालिक उत्कालिकश्चेति । तत्र कालिकः प्रथमपौरुष्या अनन्तरं चतुर्थपौरुषीतः पूर्वो यः कालः सः । विकृतोत्कालिकः-सूर्योदयसूर्यास्तयोः सन्धिकालः अर्द्धरात्रिश्चेति । एवम्भूते विकृते काले 'सज्झायं' त्वाध्यायम्-आचाराङ्गनिशीथसूत्रप्रमृतीनां मूलपाठस्याऽध्ययनम् 'करित्तए वा' कर्तुम् ॥ सू० १४ ॥
निम्रन्थीनां व्यतिकृष्टे काले स्वाध्यायं कत्तुं कल्पते इति तद्विधिमाह-कप्पइ णिग्गंथीणं' इत्यादि ।
सूत्रम्-कप्पइ णिग्गंधीणं विइगिटे काले सज्झायं करित्तए णिगंथनिस्साए ॥१५॥ छाया-कल्पते निर्ग्रन्थीनां व्यतिकृष्टे काले स्वाध्यायं कत्तुं निग्रन्थनिश्रया ॥१५॥
भाष्यम्--'कप्पई' कल्पते 'णिग्गंथीणं' निग्रन्थीनाम् 'विइगिट्टे काले' व्यतिकृष्टे काले-विकालेऽपीत्यर्थः 'सज्झायं करिचए' स्वाध्यायं आचाराङ्ग-निशीथसूत्राणामध्ययनं कर्तुम् ।
ननु पूर्वसूत्रे व्यतिकृष्टकाले निर्ग्रन्थानां स्वाध्यायस्य निषेधः कृतः, प्रकृतसूत्रेण श्रमण्याः कृते स्वाध्यायस्य विधानं क्रियते अस्वाध्यायकालस्तु सर्वेषां समान एव भवतीति न्यायस्य समानत्वात् कथमस्वाध्यायकाले निम्रन्थीनां स्वाध्यायस्य विधानं कृतम् ? तत्राह--कारणिकमिदं सूत्रम् , यथा काचिन्नवदीक्षिता सूत्रावृतिं करोति स्त्रीस्वभावत्वाद् विस्मरणशीला च सा, संप्रति स्वाध्यायाकरणेऽस्याः सूत्रं विस्मृतं भविष्यतीत्यादिकारणमादाय निम्रन्थ आज्ञां ददाति तदा तदाज्ञया तस्याः कृते व्यतिकृष्टकालेऽपि स्वाध्यायस्य विधानं कृतमिति नात्र दोषापत्तिरत माह-णिग्गंथ०' इत्यादि, 'णिग्गंथनिस्साए' निर्ग्रन्थनिश्रया-श्रमणस्याज्ञया श्रमण्या सूर्योदयसूर्यास्तसन्धिकालार्द्धरात्ररूपास्वाध्यायेऽपि काले स्वाध्यायः फल्पते, निषेधोऽत्र स्वातन्त्र्येण संयत्याः विकृतकाले स्वाध्यायकरणविषयको विज्ञेय इति ॥ सू० १५ ॥