________________
भाष्यम् उ० ७ सू० ११-१५ व्यतिकृष्टदिग्गमनाधिकरणब्यवशमनविधिः १७३ मनाज्ञां दातुं वा, "धारितए वा" धारायितुं स्वस्य गमनं स्वीकत्तुं स्वस्य गन्तुमित्यर्थ. न कल्पते इति पूर्वेण सम्बन्धः । क्षेत्रतो विप्रकृष्टा दिग्-दूरदेशरूपा, तत्र गच्छन्तीनां संयतीनां स्त्रीशरीरत्वाद् बहवो दोषा आत्मसंयमविराधनादयो भवन्ति । भावतो विप्रकृष्टा-अन्यगच्छीयाचार्यादिरूपा तत्राधिकरणादिसंभवादिति ॥ सू० १०॥
सम्प्रति निम्रन्थमधिकृत्य विहारविधिमाह --'कप्पइ' इत्यादि।।
सूत्रम्-कप्पइ णिग्गंथाणं विइगिट्ठियं दिसं वा अणुदिसं वा उदिसित्तए वा धारित्तए वा ॥ सू० ११॥
छाया-कल्पते निम्रन्थानां व्यतिकृष्टां दिशं वा अनुदिशं वा उद्देष्टु वा धारयितुं वा ॥ सू० ११ ॥
भाष्यम्-'कप्पइ' कल्पते "णिग्गंथाणं' निर्ग्रन्थानाम् 'विइगिट्टियं दिसं वा' व्यतिकृष्टां दिशं वा-व्यतिकृष्टाम् क्षेत्रतो भावतश्च विपरीता, क्षेत्रतो दूरस्थाम्, भावतोऽन्यगच्छीयाचार्यादिरूपाम् 'अणुदिसं वा' अनुदिशं वा-अतिविपरीताम् 'उदिसित्तए वा धारित्तए वा' उद्देष्टुमनुज्ञातुम् धारयितुं-स्वयं गन्तुं वा । सू० ११ ॥
पूर्व निर्ग्रन्थानां विप्रकृष्टदिग्गमने विधिः प्रोक्तः, सम्प्रति, विप्रकृष्टप्रसङ्गाद् विप्रकृष्टाधिकरणजन्यापराधक्षमापने निर्ग्रन्थमधिकृत्य सूत्रमाह—'नो कप्पइ णिग्गंथाणं' इत्यादि ।
सूत्रम् - नो कप्पइ निग्गंथाणं विइगिहाई पाहुडाई विओसवित्तए ॥२०१२॥ छाया-नो कल्पते निर्ग्रन्थानां व्यतिकृष्टानि प्राभृतानि व्यवशमयितुम् ॥ सू० १२ ॥
भाष्यम-'नो कप्पई' न कल्पते 'णिग्गंथाणं' निर्ग्रन्थानाम् 'विइगिट्ठाई' व्यतिकृष्टानि-दूरदेशकृतानि 'पाहुडाई' प्रामृतानि कठोरवचनादिजनिताधिकरणानि — विओसवित्तए' व्यवशमयितुम् तत्रस्थानामेव उपशमयितुम् , किन्तु-यत्रैव स्थानविशेषेऽधिकरणं समुस्पन्नं तत्रैवोपशमयितुं कल्पते, क्लेशमुत्पाद्य नान्यत्र गमनं युक्तियुक्तमिति भावः। अत्रापि व्यतिकृष्टाधिकरणक्षमापनं द्विविधम्-क्षेत्रतो भावतश्च, एषः क्षेत्रतो व्यतिकृष्टाधिकरणक्षमापनविधिरुक्तः । भावतस्तु अन्येन श्रमणेन साद्धं कृताधिकरणस्याऽन्यसमीपे क्षमापनम् , एवमपि कत्तुं न कल्पते इति सूत्राशयः ॥ स्० १२ ॥
सम्प्रति निम्रन्थीमधिकृत्य व्यतिकृष्टाधिकरणक्षमापनविधिमाह-'कप्पइ णिग्गंथीणं' इत्यादि । सूत्रम्-कप्पइ णिग्गंथीणं विइगिट्ठाई पाहुडाइं विओसवित्तए ॥ सू० १३ ॥ छाया-कल्पते निम्रन्थीनां व्यतिकृष्टानि प्राभृतानि व्यवशमयितुम् ॥ सू० १३ ॥
भाष्यम्-'कप्पई' कल्पते 'णिग्गंधीणं' निम्रन्थीनाम् 'विइगिट्टाई' व्यतिकृष्टानि क्षेत्रतो भावतश्च दूरदेशकृतानि 'पाहुडाई' प्राभृतानि-अधिकरणानि तत्रस्थिताया एव 'विओ