________________
भाष्यम् उ० ७ सू० ६-१०
निग्रन्थनिर्ग्रन्थ्योः प्रव्राजनविधिः १७१
छाया - नो कल्पते निर्मन्थानां निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुं वा-मुण्डापयितुं वा उपस्थाययितु वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिशं वा अनुदिशं घा उद्देष्टुं वा धारयितुं वा ॥ सू०
11
भाष्यम् –'नो कप्पइ णिग्गंथाणं' नो कल्पते निर्ग्रन्थानाम् 'निग्गंथिं' निर्ग्रन्थोम् 'अपणो अट्टाए' आत्मनोऽर्थाय - स्वस्य शिष्यांकरणाय ' इयं मम शिष्या भविष्यती ' - तिबुद्धया 'पव्वावेत्तए वा' प्रव्राजयितुं वा - सामायिकारोपणेन प्रव्रज्या दातुं वा, 'मुंडावेत्तए वा' मुण्डा - पयितुं वा–लोचादिकरणेन मुण्डितां कर्त्तुं वा, 'सेहावेत्तए वा' शिक्षयितुं वा - ग्रहणासेवनशिक्षां दातु ं वा, 'वहावेच वा' उपस्थापयितुं वा छेदोपस्थापनचारित्रे आरोपयितुं वा 'संभुंजितए वा' संभोक्तुं वा द्वादशविधसंभोगानां मध्येऽन्यतम संभोगमाचरितु वा प्रदानरूपं व्यवहारं कर्त्तुमित्यर्थः, 'संवसित्तए वा' संवस्तु वा - तया सह वासं कर्तुम् - एकत्र स्थातु ं न कल्पते । तथा-'तीसे इत्तरियं दिसं वा' तस्याः संयत्या इत्वरिकाम् - अल्पकालिक दिशं प्रवर्त्तिन्यादिपदवीम् ‘अणुदिसं वा' अनुदिशं वा - यावज्जीविकां पदवीं वा 'उद्दिसित्तए वा धारित्तए वा' उद्देष्टुम् - अनुज्ञातुं वा धारयितुं वा न कल्पते ॥ सू० ६ ॥
भक्तपानाद्यादान
पूर्वं निर्ग्रन्थानां स्वनिमित्तं निर्ग्रन्ध्याः प्रत्राजनादिनिषेधः कथितः, सम्प्रति -अन्यप्रवर्त्तिन्यादिनिमित्तं तत्कल्पते, इति विपर्यये सूत्रमाह - ' कप्पर णिग्गंथा' इत्यादि ।
सूत्रम् — कप्पइ णिग्गंथाणं णिग्गंथिं अन्नार्सि अट्ठाए पव्वावेत्तए वा, मुंडावेत्तए वा, सेहावेत वा, उवद्यावेत्तए वा, संभुंजित्तए वा, संवत्तिए वा, तीसे इत्तरियं दिसं वा, अणुदिसं वा, उद्दित्तिए वा, धारितए वा ॥ सू० ७ ॥
छाया -कल्पते निर्ग्रन्थानां निर्ग्रन्थीम् अन्यासामर्थाय प्रव्राजयितु वा, मुण्डापयितु वा, शिक्षयितुं वा, उपस्थापयितुं वा संभोक्तुं वा, संवस्तु वा, तस्या इत्वरिकां दिशं वा, अनुदिशं वा उद्देष्टुं वा धारयितु वा ॥ सू० ७ ॥
भाष्यम् –'कप्पइ णिग्गंथाणं' कल्पते निर्ग्रन्थानाम् 'णिग्गंथिं' निर्ग्रन्थीम् ' अन्नासिं अट्ठाए' अन्यासामर्थाय, तत्र अन्यासाम् प्रवर्त्तिन्यादीनाम् अर्थाय प्रयोजनाय. 'एता एतस्या उपग्रहं करिष्यन्ती'–त्यभिप्रायेण, न तु स्वात्महितायेत्यर्थः, 'पच्चावेत्तए वा' इत्यादि सबै पूर्ववदेव व्याख्येयम् ॥ सू० ७ ॥
निर्ग्रन्थानां निर्ग्रन्थीविषये प्रत्राजनादिविधिरुक्तः, सम्प्रति निर्ग्रन्थीनां निर्ग्रन्थविषये तन्निषेधमाह - 'नो कप्पइ' इत्यादि ।
सूत्रम्
-नो कप्पर णिग्गथीणं णिग्गंथ अप्पणो अट्टाए पव्वावेत्तए वा मुंडावेत्तए वा, सेहावेत्तए वा, उवद्यावेत्तए वा, संभुजित्तए वा, संवसित्तए वा, तस्स इतरियं दिसं वा, अणुदिसं वा, उद्दित्तिए वा, धारितए वा ।। सू० ८ ॥