________________
१७०
व्यवहारसूत्रे 'अहं णं भंते !' अहं खलु भदन्त ! 'अमुगीए अज्जाए सद्धिं इमंमि कारणमि' अमुक्यानिर्दिष्टनाम्न्या आर्यया सार्द्धम् अस्मिन् कारणे अतिचारादिरूपे 'पारोक्खं पडिएक्कं संभो. इयं विसंभोइयं करेमि' परोक्षं-परोक्षरूपेण तदनुपस्थितौ भवत्पार्श्वे, न तु तत्संमुग्वं, प्रत्येकम् एककेत्यर्थः सांभोगिकी विसांभोगिकी करोमि । अथ साध्वीनाम् एवं प्रकारकं वचनं श्रुत्वा आचार्योपाध्यायास्तदुक्तं तस्याः कथयन्ति, कथिते सति यदि 'सा य से पडितप्पेज्जा' सा च संप्राप्तदोषा 'से' तस्याः कथने प्रतितपेत् , तत्प्रदत्तदोषविषये परिताप कुर्यात् पश्चात्तापवती भवेदित्यर्थः 'सत्यं दुप्ठ मया कृतं, नैवं मम कर्तुं युज्यते' इत्येवं यदि मिथ्यादुप्कृतदानेन पश्चात्तापं कुर्यात् । यदि पापस्थानं न सेवितं भवेत्तदा असत्तदाख्यानमित्युक्त्वा प्रत्याख्यायेत् तत्कथनं निराकुर्यात् आचार्योपाध्यायेभ्यस्तदकरणे विश्वासं कारयेदित्यर्थः ‘एवं से नो कप्प पारोक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए' एवं सति 'से' तासां समुदायस्य नो कल्पते परोक्षं प्रत्येक सांभोगिकी विसांभोगिकी कर्तुम् । 'सा य से नो पडितपेज्जा' सा च तासां कथने नो परितपेत् , अथ यदि सा श्रमणी तत्कथने मिथ्यादुष्कृतदानादि न समाचरेत् 'एवं से कप्पइ पारोक्खं पाडिएक्कं संभोइयं विसंभोइयं करित्तए' एवं स्थितौ तासां कल्पते परोक्षं प्रत्येकं सांभोगिकी विसांभोगिकी कतै कल्पते इति पूर्वण सम्बन्धः, एवं रीत्या करणे आचार्योपाध्यायास्ताभ्यो न कमपि उपालम्भं प्रयच्छन्ति ।
भत्र परोक्षप्रत्यक्षविषये शङ्कापूर्वकं समाधत्ते भाष्याकरः-'णिगंथाण य' इत्यादि । गाथा-"णिग्गंथाण य पच्चक्खं, परोक्खं संजईण किं ।
__णिग्गंथा सहणं कुज्जा, असहा सा य भंडए" ॥१॥ छाया-निर्ग्रन्थानां च प्रत्यक्षं, परोक्षं संयतीनां किम्।
निम्रन्थाः सहनं कुर्यात् , असहा सा च भण्डयेत् ॥ १ ॥ अयं भावः-अत्राशङ्कते-संयतसंयतीनां विषये विपर्ययेण कथने किं प्रयोजनम् । उत्तरमाह-संयताः सहनशीला भवन्ति परिशीलितशास्त्रत्वात्, संयत्यश्च न तथा सहनशीला भवन्ति स्त्रीस्वाभाव्यात्, ततस्ताः कुपिताः सत्यः भण्डयेयुः धर्मस्य, संयतसंयतीनां च भण्डनां कुर्युरतोऽत्र विपर्ययेण प्रोक्तमिति ।। सू० ५ ॥
पूर्व निर्ग्रन्थीनां सांभोगिकीनां विसाम्भोगिककरणे विधिः प्रदर्शितः, अथ निर्ग्रन्थानां स्वशिष्याकरणनिमित्तं निम्रन्थ्याः प्रव्राजननिषेधमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाणं निगंथिं अप्पणो अट्ठाए पव्यावेत्तए वा, मुंडावेत्तए वा, सेहावेत्तए वा, उवट्ठावेत्तए वा, संभुजित्तए वा, संवसित्तए वा, तीसे इत्तरिय दिसं वा अणुदिसं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० ६ ॥