________________
व्यवहारसूत्रे यथाह प्राश्चित्तं तपाकर्म अप्रतिपाद्य उपस्थापयितुं वा संभोक्तुं वा संवस्तुं वा तस्या इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा ।। सू० २३॥
भाष्यम्-'नो कप्पइ' नो कल्पते णिग्गंथाण वा निग्गंथीण वा' निर्ग्रन्थानां श्रमणानां पुनश्च निर्ग्रन्थीनां श्रमणीनाम् ‘णिगंथिं' निर्ग्रन्थीं-श्रमणीम् 'अन्नगणाओ आगयं' अन्यगणात् ___ गणान्तराद् आगताम् पापस्थानसेवने प्रायश्चित्तग्रहणभयात् आगताम्, कीदृशीमिन्याइ-खुयाया'
क्षताचाराम् -क्षतो विनिष्ट आचारो-ज्ञानाद्याऽऽचारो यस्याः सा क्षताचारा ताम् । 'सबलायार' शवलाचाराम् शवल:-कर्वरः दूषितः आचारो विनयादिरूपः साध्वाचारो यस्या. सा शवलाचारा दुषिताचारा ताम् । 'भिन्नायारं' भिन्नाऽऽचाराम्-भिन्नः-भेदमापन्न आचारो यस्याः सा भिन्नाचारा ताम् । 'संकिलिहायारचरितं संक्लिष्टाऽऽचारचारित्राम् संक्लिष्टं क्रोधादिना मलिनम् आचारविशिष्टं चारित्रं यस्या. सा तथा ताम्, पुनश्च-'तस्स ठाणस्स' तस्य स्थानस्य यस्मिन् स्थाने प्रतिसेविते सति मताचारादिविशिष्टा जाता तस्य स्थानस्य 'अणालोएत्ता वा' अनालोच्य-तस्य पापस्थानस्याऽऽलोचनामकारयित्वा 'अपडिक्कमावेत्ता' अप्रतिक्रम्य तस्मात्पापस्थानादपरावर्त्य 'अनिंदावेत्ता' अनिन्दयित्वा तस्य पापस्थानस्याऽऽमसाक्षिकी निन्दामकारयित्वा 'अगरिहावेत्ता' अगर्हयित्वा-गुरुसाक्षिकी गर्हामकारयित्वा 'अविउद्यावेत्ता' अविकुट्य-अतिचारसम्बन्धमविच्छेद्य अतिचारात् पृथग् अकृत्त्वेत्यर्थः 'अविसोहावेता' अविशोध्य तस्य पापस्थानस्य शोधनमकारयित्वा 'अकरणाए अणमुटावेत्ता' तस्य पापस्थानस्य पुनरकरणाय अनभ्युत्थाप्य 'अहारिहं पायच्छित्त' तबोकम्मं अपडिवज्जावेत्ता' यथार्ह-यथायोग्यं प्रायश्चित्तं तप.कर्म अप्रतिपाद्य-अस्वीकार्य तां निर्ग्रन्थीम् 'उवहावेत्तए वा' पुनर्महाव्रतेषु उपस्थापयितुम् , 'स जित्तए वा' संभोक्तुं वा तया अकृतप्रायश्चितया सह एकमण्डले आहारादि कर्तुम् , 'संबसित्तए वा' सवस्तुं वा तया सह वंसतौ स्थातुं वा, पुनश्च-तीसे' तस्याः 'इतरियं दिसं वा' इत्वरिका दिशं वा अल्पकालिकों प्रवर्तिन्यादिपदवीम् 'अणुदिसं वा' अनुदिशं वा यावज्जोविकां वा प्रवर्तिन्यादिपदवीम् 'उदिसित्तए वा' उद्देष्टुं-दातुं न कल्पते एवम् 'धारित्तए वा' धारयितुं वा तस्याः स्वस्याः पदवी धतुं वा न कल्पते, पूर्वोक्तविशेषणविशिष्टया निर्ग्रन्थ्या सह किमपि प्रकारकं परिचयजातं निर्ग्रन्ध्या निर्ग्रन्थस्य न कल्पते, यथा कुथितनागवल्लीदलसंपर्केण अकुथितान्यपि दलानि कुथितानि जायन्ते तथैव क्षताचारादिविशेषणविशिष्टाया निर्ग्रन्ध्या सहवासादन्या अपि निर्ग्रन्थ्यस्तादृश्यो भवन्ति । अत्राशङ्कते कोऽपि—'पमायरहिया जा उ, सा कहं सवला भवे' प्रमादरहिता या तु सा कथं शवला भवेत् ? उत्तरमाह-संवासमाइदोसेणाऽसवला सवला भवे' संवासादिदोषेण अशवला शवला भवेत् , इति ॥ १ ॥ तस्मात्तादृश्या निम्रन्थ्या. सहवासो वर्जनीय इति । एवं पूर्वोक्तविशेषणविशिष्टस्य निर्ग्रन्थस्य विपयेऽपि सूत्रमनुसंधातव्यमिति ॥ सू.० २३ ॥