________________
भाष्यम् उ० ६ सू० १९-२१
बहुश्रुतस्यैकप्राकारादियुक्तवसतिवासानुज्ञा १५७
यत्राऽनेको निष्क्रमणस्य प्रवेशस्य च मार्गो भवति तस्यामनेकनिष्क्रमणप्रवेशमार्गायां वसतो 'नो कप्पइ' नो कल्पते 'बहुस्सुयस्स' बहुश्रुतस्य- सूत्रतोऽधीताऽनेकागमस्य 'वभागमस्स' वहागमस्य -अर्थतो ज्ञाताऽनेकागमस्य, य आवश्यकदशवैकालिकोत्तराध्ययनज्ञानवान् स बागम आख्यायते, यः पुनर्द्वि त्रिसूत्रज्ञानवान् सोऽल्पश्रुतः, यस्तु सूत्राणि अनेकानि जानाति, अर्थ तु दित्राणामेव सोऽपाऽऽगमस्तस्य 'भिक्खुयस्स' भिक्षुकस्य साधोरेकाकिनः 'वस्थए' वस्तुं--निवासं कर्तुं न कल्पते 'किमंग पुण अप्पागमस्स अप्पसुयस्स' किमङ्ग पुनः -किमुत अल्पश्रुतस्याऽल्पागमस्य एकाकिनः सामान्यभिक्षुकस्य पृथग् निवासः कल्पते तस्य सुतरामेव न कल्पते--इति तात्पर्यम् । यदा- बहुश्रुतस्य वागमस्यैकाकिनो निवासो न कल्पते तदा--अल्पश्रुतस्याऽल्पागमस्यैकाकिनस्तु कथमपि न कल्पते इति भावः ॥ सू० १९ ॥
पूर्वमेकाकिना वसतेन्तर्बहिर्वा न वस्तव्यमित्यधिकृत्य कथितम्, सम्प्रति--बहुश्रुतस्योभयकालं भिक्षुभावप्राप्तस्यैकाकिनोऽपि एकवगडादियुक्तायां वसतौ वासः कल्पते, इत्यधिकृत्य सूत्रमाह-- ‘से गामंसि वा' इत्यादि ।
सूत्रम्-से गामंसि वा नगरंसि वा जाव रायहाणिसि वा एगवगडाए एगद्वाराए एगनिक्खमणपवेसाए कप्पइ बहुस्सुयस्स वभागमस्स एगाणियस्स भिक्खुस्स वत्थए, दुहओ कालं भिक्खुभावं पडिजागरमाणस्स ॥ सू० २० ॥
छाया-अथ ग्रामे वा नगरे वा यावद् राजधान्यां वा एकवगडायाम् पकद्वारायाम पकनिष्क्रमणप्रवेशायाम् कल्पते वहुश्रुतस्य वागमस्य एकाकिनो भिक्षोर्वस्तुम् , उभयकालं भिक्षुभावं प्रतिजाग्रतः ॥ सू० २० ॥
भाष्यम् –'से गामंसि वा नगरंसि वा जाव रायहाणिसि वा' अथ ग्रामे वा नगरे वा यावद् राजधान्यां वा 'एगवगडाए' एकवगडायां वा-एकप्राकारविशिष्टायां वसतो, 'एकदवाराए' एकद्वारायां एकमेव द्वारं यत्र तस्याम् , एगनिक्खमणपवेसाए' एक निष्क्रमणप्रवेशायाम् यत्र एक एव निष्क्रमणमार्गः प्रवेशमार्गश्च तथाविधाया वसतौ, 'कप्पई' कल्पते 'वहस्सयस्स' बहुश्रुतस्य-सूत्रापेक्षयाऽनेकशास्त्रकुशलस्य विभागमस्स' बह्वागमस्य-अर्थापेक्षयाऽनेकागमज्ञानवतः, 'एगाणियस्स' एकाकिन. सहायकरहितस्येत्यर्थ., 'भिक्खुस्स' भिक्षोः-श्रमणस्य 'वत्थए' वस्तुं-वासं कर्तुम् । कथमेकाकिनः कल्पते तत्राह-'दुहओ' इत्यादि, 'दुहओ कालं' उभयकालम् उपलक्षणादहोरात्रम् , 'भिक्खुभावं' भिक्षुभावम्-भावभिक्षुतां निरतिचारचारित्रमित्यर्थः 'पडिजागरमाणस्स' प्रतिजाग्रतः-दत्तावधानेन परिपालयतः, चारित्राराधनार्थ या सामाचारी तां कुर्वतः, चारित्रे दोषलेशो नापतेति, तत्र अहर्निशं यतनां कुर्वतः एवम्भूतस्य एकवगडादिविशेषणविशिष्टायां वसतौ वस्तुमेकाकिनोऽपि कारणे कल्पते नान्यस्येति भावः ।