________________
१५६
व्यवहारसूत्र तदेव दर्शयति-'अत्थि' इत्यादि, 'अस्थि य इत्थ केइ आयारपकप्पधरे' अस्ति–विद्यते चाऽत्र कश्चिद् आचारप्रकल्पधरः-आचारागनिशीथादिसूत्रार्थयोर्शाता गीतार्थः, 'जे तइयं रयणि संवसई' य आचारप्रकल्पधरः तृतीयां रजनीं रात्रिं तृतीयरात्रौ इत्यर्थः अकृतश्रुतसंवासानन्तरं रात्रिद्वयं मुक्त्वा तृतीयस्यां रजन्यामागत्य तैरनेकैरकृतश्रुतैः सह संवसेत् तैः सह मिलित्वा तत्र निवासं कुर्यात् , ,यदि-एतादृशः कश्चिदाचारप्रकल्पधरो भवेत् यस्तृतीयदिवसे तैः सह मिलेत् तदा-'नत्थि य इत्थ केइ छेए वा परिहारे वा' नास्ति चात्र कश्चित् छेदो वा परिहारो वा, अकृतश्रुतसहवासजनितं छेदनामकं परिहारनामकमन्यद्वाऽपि प्रायश्चित्तं न भवति, तेषां गीतार्थनिश्राप्राप्तत्त्वात् । अथ च 'नस्थि य इत्थ केइ आयारपकप्पधरे' नास्ति चात्र कश्चिदाचारप्रकल्पधरः 'जे तइयं रयणि संवसई' य आचारप्रकल्पधरस्तृतीयां रजनीरात्रिं संवासानन्तरं तृतीयस्यां रजन्यामित्यर्थ तैः सह संवसति, यदि-तत्र कश्चिदाचारप्रकल्पघरस्तृतीयस्यां रात्रावपि समागत्य तत्र न वसेत्, यो हि तैः सह तृतीयदिवसेऽपि संमिलितो न भवेत् तदा-'सव्वेसि तेसिं तप्पत्तियं छेए वा परिहारे वा' सर्वेषां तेषा तत्र वसतां निर्ग्रन्थानां तत्प्रत्ययम्-अगीतार्थसहवासनिमित्तकं छेदो वा परिहारो वा, यदि तत्र कश्चिद् गीतार्थो न भवेत् तदा-तत्र वसतां सर्वेषामपि अकृतश्रुतानां छेदनामकं--परिहारनामकमन्यदपि देशकालोचितं प्रायश्चित्तं भवत्येवेति ॥ सू० १८ ॥
___ पूर्वमकृतश्रुतानामकृतश्रुतसंवन्धेन एकाकिनां गीतार्थसहवासमन्तरेण वस्तुं न कल्पते इति प्रोक्तम् , एकाकिप्रसङ्गादत्र पृथक् पृथग् द्वारादियुक्तायां वसतौ बहुश्रुतबह्वागमस्य भिक्षुकस्यैकाकिनो वस्तुं न कल्पते इति प्रदर्शयन्नाह–'से गामंसि वा' इत्यादि ।
सूत्रम्-से गामंसि वा जाव रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणपवेसाए नो कप्पइ बहुस्सुयस्स वभागमस्प्त भिक्खुयस्स वत्थए, किमंग पुण अप्पागमस्स अप्पसुयस्स ।। सू० १९॥
छाया-अथ ग्रामे वा यावद् राजधान्यां वा अभिनिवगडायाम् अभिनिद्वारायाम् अभिनिष्क्रमणप्रवेशायाम् नो कल्पते बहुश्रुतस्य वह्वागमस्य भिक्षुकस्य वस्तुम् किमङ्ग पुनरल्पागमस्याऽल्पश्रुतस्य ॥ सू० १९॥
भाष्यम्- 'से गामंसि वा जाव रायहाणिसि वा' अथ ग्रामे वा यावद् राजधान्यां वा 'अभिनिव्वगडाए' अभिनिवगडायाम्-अनेकप्राकारपरिक्षिप्तायाम् 'अभिनिदुवाराए' अभिनिद्वारायाम्-अनेकद्वारवत्याम् , , 'अभिनिवखमणपवेसाए' अभिनिष्क्रमणप्रवेशायाम्