________________
मान्यम् उ० ५ सू १९-२० निर्ग्रन्थनिर्ग्रन्थीनां स्वपक्षविपक्षे वैयावृत्यविधिः १४३ दोपेऽपि श्रुते अपरिस्राविणः न कस्मैचिदपि प्रकटनशीला इत्यर्थः, चिरदीक्षिताः-प्रभूतकालप्रवजिताः, वृद्धाः-श्रुतेन पर्यायेण वयसा च महान्तः, एवम्भूता यतयः-साधवः उपलक्षणात् सान्यश्च मालोचनादानयोग्याः आलोचनादाने समुचिता भवन्तीति ॥ १॥ अत्राह भाष्यकारः'आलोयणाए' इत्यादि । गाथा-"आलोयणाए जे दोसा, वेयावच्चेवि ते पुणो।
तम्हा अन्नोन्नभावेणं, वेयावच्चं न कारए" ॥१॥ छाया-आलोचनायां ये दोषा वैयावृत्त्येऽपि ते पुनः ।
तस्माद् अन्योऽन्यभावेन वैयावृत्त्यं न कारयेत् ॥१॥ व्याख्या-ये च खलु-विपक्षे-आलोचनायां दोषाः कथिताः, ते सर्वेऽपि दोषाः वैयावृत्त्येऽपि परस्परं वैयावृत्त्यकारणेऽपि भवन्ति तस्माद् अन्योऽन्यभावेन विपक्षे वैयावृत्त्यं न कारयेदिति सूत्राक्षरार्थः ।
. अयं भावः—विपक्षात्-वैयावृत्त्यं शारीरिकं हस्तपादादिसंवाहनरूपं कारयतः साघोः कदाचित चञ्चलचित्तायाः साच्या विषये मनो विकृतं भवेत् तेन व्रतभङ्गदोष आपद्येत, आहाराद्यानयनविषये च श्रमण्या समानीतमन्नादिकं भुञ्जतः साधोराज्ञाभङ्गादिदोषाः, शङ्कितादि. दोषाश्च भवेयुः । उक्तञ्चात्र
समणीए आणीय, मुंजइ असणाइ जत्थ समणो य । गच्छो नपुंसओ सो, एवं समणीण धम्मकहा ॥१॥
छाया-श्रमण्या आनीतं भुक्ते अशनादि यत्र श्रमणश्च ।
गच्छो नपुंसकः सः, एवं श्रमणीनां धर्मकथा ॥१॥
अयं भावः—यस्मिन् गच्छे श्रमण्या समानीतमशनादिकमकारणे श्रमणो मुके स गच्छो नपुंसको विज्ञेयः । एवं श्रमणानां सद्भावे श्रमण्या धर्मकथाऽपि बोध्या । श्रमणसत्तायां श्रमणी यदि पट्टोपर्युपविश्य परिपदि धर्मकथां करोति यस्मिन् गच्छे स गच्छोऽपि नपुंसक एवेति ॥ १॥
पुनश्च-आहारानयने–'अन्यन्मनसि-अन्यद्वचसि' इत्यादिदुष्टलक्षणलक्षिता संयती कदाचिद् अनेषणीयमप्यशनादिकमानीय समर्पयति, इत्यादि दोषवाहुल्यात् कथमपि किमपि संयतेन संयतीभिः किमपि वैयावृत्यं न कारयितव्यमिति। एवं संयत्याः संयतेवैयावृत्त्यकारणे दोषाः