________________
ध्यवहारसूत्र
व्याख्या-दशस्थानसंपन्नोऽनगारः आलोचकेन दीयमानामालोचनां ग्रहीतुमर्हति, कीदृशः स भवितुमर्हति ? 'तं जहा' तद्यथा-आचारवान्-ज्ञानाद्याचारवान् १, अवधारवान्अवधारणावान् २, व्यवहारवान्-आगमादिपश्चप्रकारव्यवहारवान् ३, अपनीडकः-लज्जापनोदकः यथा परः सुखमालोचयति ४, प्रकुर्वक:-आलोचितेऽतिचारे शुद्धिकरणसामर्थ्यवान् ५, निर्यापक्रः-निर्यापनकारकः तथा प्रायश्चित्तं ददाति यथा स निर्वोढुं शक्नोति ६, अपरित्रावीश्रुतालोचकदोषाणां न कस्मैचित्कथनशीलः ७, अपायदर्शी-आलोचकस्य पारलाकिकाऽपायदर्शकः ८, प्रियधर्मा-धर्मप्रियः ९, दृढधर्मा-आपद्यपि धर्मेऽविचल १० इति । तस्य, तथा ज्येष्टस्य च समीपे आलोचना कर्तव्या । यदि तत्र दशविधगुणयुक्तो न भवेत्तदा पर्यायज्येष्ठस्य समीपे दैवसिकं रात्रिकं सामान्यमतिचारजातमालोचयेदिति । अथापवादमाह-अथ यदि-'नत्थि या इत्य केइ आलोयणारिहे' न सन्ति-न विधन्ते चेदत्र केचिदालोचनाो निम्रन्थाः 'एवं ण्हं कप्पइ अन्नमन्नस्स अंतिए आलोएत्तए' एवम्-एतादृश्यां परिस्थितौ खल कल्पतेऽन्योऽन्यस्याऽन्तिके-समीपे आलोचयितुम्-आलोचनां कर्तुमिति ।
अयं भावः-आलोचना च न विपक्षे, सपक्षेऽपि नागीतार्थेषु भवितुमर्हति, तत्र गुप्तातिचारस्य प्रकटनायोग्यत्वात् । तत्र विपक्षः-संयताः संयतीनाम्, संयत्यश्च संयतानामिति । सपक्षः संयताः संयतानाम् , संयत्यश्च संयतीनां भवति । यतः-विपक्षे आलोचनायां चतुर्थवतादिगुप्तातिचाराणां प्रकटने परस्परं भावभेदः संभवति, तस्माद् भगवता अन्योऽन्यालोचनाप्रतिषे. धकमिदं सूत्रं प्रतिपादितम् । अपवादपक्षे गाढागाढकारणे समुत्पन्ने परस्परालोचनाविधिप्रतिपादकं सूत्रं प्रवर्तितम् । तत्रापि विवेकः प्रवर्त्तयितव्यः, यथा-आलोचको युवको वृद्धो वा आलोचना निर्ग्रन्थी वृद्धाऽवश्यम्भाविनी। आलोचिका युवतिवृद्धा वा आलोचनाहों निम्रन्थो वृद्धो. ऽवश्यंभावी युज्यते, एवं परस्परालोचनाविधिप्रतिपादकं सूत्रं प्रवर्तनीयमिति । मालोचना: कीदृशैभवितव्यम् । तत्राह भाष्यकारः-'गीयस्था' इत्यादि। गाथा-"गीयस्था कयकरणा, पोदा परिणामिया य गंभीरा ।
चिरदिक्खिया य वुड्ढा, जइणो अलोयणाजोग्गा ॥१॥" , छाया-गीतार्थाः कृतकरणाः, प्रौदाः पारिणामिकाश्च गम्भीराः ।
चिरदीक्षिताश्च वृद्धाः, यतय आलोचनायोग्याः ॥१॥ व्याख्या--'गीयत्था' इति । गीतार्थाः-सूत्रार्थतदुभयनिष्णाताः, कृतकरणाः-अनेकवारमालोचनादाने सहायीभूताः, प्रौढाः-समर्थाः सूत्रतोऽर्थतश्च प्रायश्चित्तदाने पश्चास्कर्त्तमशक्याः, पारिणामिकाः-आलोचनायाः परिणामचिन्ताकुशलाः, गम्भीराः आलोचकस्य महति