SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३६ व्यवहारसूत्रे नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं चा उद्देष्टुं वा धारयितुं वा । स च वदेत्आवाधेन, नो प्रमादेन, स च-संस्थापयिष्यामीति संस्थापयेत् , एवं तस्य कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, स च-संस्थापयिष्यामीति नो संस्थापयेत् एवं तस्य नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १५॥ भाष्यम्-'निग्गंथस्स' निम्रन्थस्य श्रमणस्य 'नवडहरतरुणस्स' नवडहरतरुणस्य, तत्र नव-दीक्षापर्यायेण त्रिवार्षिक', डहर.-जन्म-पर्यायेण षोडशवार्षिकः, तरुणः-चतुश्चत्वारिंशद्वार्षिकः उक्तञ्च -'तिवरिसो होइ नवो, आसोलसगं डहरगं वेति । तरुणो चउचत्तालो, मज्झिमो थेरओ सेसो ॥१॥ छाया--त्रिवर्षो भवति नवः, आषोडशकं डहरकं ब्रवन्ति । तरुणश्चतुश्चत्वारिंशत्को मध्यमः स्थविरः शेषः ॥१॥ इति । तस्य तादृशस्य निर्ग्रन्थस्य यदि 'आयारपकप्पे नाम अज्झयणे' आचारप्रकल्पो नामा. ध्ययनम्-आचाराङ्गनिशीथादिसूत्रम् 'परिव्भटे सिया' परिभ्रष्ट-पठितं सद् विस्मृतं स्यात् तदा 'से य पुच्छियन्वें' स च अधीतविस्मृतो निर्ग्रन्थः स्थविरेण प्रष्टव्यः, किं प्रष्टव्यस्तत्राह-'केण ते कारणेणं अज्जो' हे आर्य ! ते तव केन कारणेन 'आयारपकप्पे नामं अज्झयणे परिभट्टे'-आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं-त्वया विस्मृतम् , किं कारणमाश्रित्य त्वयाऽऽचारप्रकल्पाध्ययनं विस्मृतमिति पृच्छेदित्यर्थः । तत्र कारणमेव विविच्य पृच्छति-किमित्यादि, 'कि आवाहेण उंदाहु पमाएणं' किम् आवाधेन-रोगादिकारणेन विस्मृतम् ? उताहो-अथवा किं प्रमादेन-आत्मनः प्रमादभावेन विस्मृतम् । एवं स्थविरेण पृष्टः सन् 'से य वएज्जा' स च श्रमणो वदेत्-कथयेत् हे भदन्त ! 'नो आवाहेणं पमाएणं' आवाधेन रागादिकारणेन नो विस्मृतं किन्तु प्रमादेन आत्मनः प्रमादभावेन विस्मृतम् । एवं कथिते सति 'जावज्जीवाए तस्स' यावज्जीवं-जीवनपर्यन्तं तस्य श्रमणस्य 'तप्पत्तिय' तत्प्रत्ययं प्रमादतो विस्मरणनिमित्तं 'नो कप्पई' नो कल्पते 'आयरियत्तं वा जाव गणावच्छेययत्तं वा' आचार्यत्वं वा यावत् उपाध्यायत्वं वा प्रवत्र्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणवरत्वं वा एवं गणावच्छेदकत्वं वा 'उदिसित्तए वा' उद्देष्टु वा अनुज्ञातुम् 'धारित्तए वा' स्वयं धारयितुं वा न कल्पते इति पूर्वेण सम्बन्धः । अथ कदाचित् ‘से य वएज्जा' स च वदेत्-हे भदन्त ! अधीतमाचारकल्पो नामाध्ययनं मया 'आवाहेणं णो पमाएणं आवाधेन-रोगादिकारणेन विस्मृतं किन्तु नो प्रमादेन प्रमादभावमाश्रित्य नो विस्मृतमिति, ‘से य संठवेस्सामीति संठवेज्जा' स च संस्थापयिष्यामि विस्मृत
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy