________________
~
भाष्यम् उ० ४ सू० १९-२०
अनेकसार्मिकाणामेकतो विहरणविधिः ११ भाष्यम्- 'वहवे' बहवोऽनेके त्रिप्रभृतिकाः 'साहम्मिया' साधर्मिकाः समानधर्मवन्त साम्भोगिकाः 'इच्छेज्जा' इच्छेयुः, किमिच्छेयुः ! तत्राह-'एगयओ' इत्यादि । एगयओ एकतः एकत्र सहिता इत्यर्थः 'अभिनिचरियं चारए' अभिनिचरिकां चरितुम्, तत्र एकत्र मिलित्वा विचरणम्, एकत्र मिलित्वा वासकरणम्, एकत्र मिलित्वा चलनं अभिनिचरिका, तां कत्तुं वहवः श्रमणा इच्छेयुः, एवं प्रकारेण तेषामिच्छताम् 'नो ण्डं कप्पइ थेरे अणापुच्छित्ता' नो खल सूत्रे 'पह' इति सर्वत्र खल्वर्थे' तेषामभिनिचरिकां चरितुं कल्पते स्थविरान् गच्छनायकान् अनापृच्छ्य मनामन्त्र्य, स्थविराणामाज्ञां विना तेषामिच्छतामपि अभिनिचरिको चरितुं कथमपि न कल्पते स्वच्छन्दचारित्वदोषसंभवात् । तर्हि कथं कल्पते ? इत्याह-'कप्पइ हं' इत्यादि, 'कप्पइ ण्हं थेरे आपुच्छिता एगयओ अभिनिचरियं चारए' यस्मात् कारणात् स्वच्छन्दचारित्वदोषापातस्तस्मात् कारणात् कल्पते खलु तेषां स्थविरान् गणनायकान् आपृच्छ्य आमन्त्र्य तदाज्ञां लब्ध्वेत्यर्थः एकतोऽभिनिचरिकां चरितुमिति । 'थेरा य से वियरेज्जा एवं ण्हं कप्पइ एगयओ अभिनिचरियं चारए' आपृच्छायां कृतायां सत्यां यदि स्थविराश्च तेषां वितरेयुरनुजानीयुरनुज्ञां दधु रित्यर्थः तदा एवं खलु कल्पते तेषामिच्छतां बहूनामेकत्र मिलित्वा एकतोऽभिचरिकां गमननिवासादिरूपां चरितुम् । अथ यदि आपृ. च्छायां कृतायामपि 'थेरा य से नो वियरेज्जा' स्थविराश्च तेषां नो वितरेयुः अनुज्ञां यदि नो दद्युस्तदा ‘एवं ण्डं नो कप्पई एगयओ अभिनिचरियं चारए' एवं खल तेषां न कल्पते न कथमपि युज्यते एकतः एकत्र मिलित्वा अभिनिचरिकां चरितुम् । 'जं तत्थ थेरेहिं अविइण्णे' यत पुनः तत्र स्थविरैः गणनायकैरवितीर्णेऽननुज्ञाते सति 'एगयओ अभिनिचरियं चरंति' एकत एकत्रमिलित्वा अभिनिचरिकां चरन्ति कुर्वन्ति 'से संतरा छेए वा परिहारेवा' से तेषां प्रत्येकं सान्तरात् तत्स्थानादप्रत्यावर्त्तनरूपात् यावन्ति दिनानि तेऽभिनिचरिकां चरन्ति तावदिनपरिमितकालमाश्रित्येत्यर्थः छेदो वा परिहारो वा छेदनामकं परिहारनामकं दशरात्रिकं तपःप्रभृतिकं वा प्रायश्चित भवतीति ॥सू० १९ ॥
पूर्वसूत्रे स्थविराज्ञयाऽभिनिचरिका प्रोक्ता, साम्प्रतमनाज्ञाविचरतो भिक्षोः प्रायश्चित्तमाह'चरियापविढे' इत्यादि।
सूत्रम्-चरियापविढे भिक्खू जाव चउरायपंचरायाओ थेरे पासेज्जा सच्चेव आलोयणा सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुव्वाणुन्नवणा चिट्ठइ अहालंदमवि उग्गहे ।। सू० २० ॥
छाया--चरिकाप्रविष्टो भिक्षुर्यावत् चतूरात्रपञ्चरात्राद्वा स्थविरान् पश्येत् सैव आलोचना तदेव प्रतिक्रमणम् सैवोपग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमप्यवग्रहे ॥सू० २० ॥