________________
११८
व्यवहार
समाकुले ग्रामे भिक्षाद्यर्थं भ्रमन्तं दृष्ट्वा सम्यगवलोक्य कश्चित्साधर्मिको वदेत् पृच्छेदित्यर्थः, किं पृच्छेदित्याह – 'कं' इत्यादि, 'कं अज्जो ! उवसंपज्जित्ता णं विहरसि' हे आर्य ! कमाचार्यविशेषमुपसंपद्य कस्याचार्यस्य निश्रायां तिष्ठन् खलु त्वं विहरसि एवं साधर्मिकेण पृष्टः सन् 'जे तत्थ सव्वराइणिए' यस्तत्र यत्र गच्छे गतस्तस्मिन् स्थाने सर्वरत्नाधिको गीतार्थ आचार्यो भवेत्तं वदेत् अमुकस्य रत्नाधिकस्य निश्रायां तिष्ठामीति वदेत् । तस्मिन्नेवमुक्ते स परिकल्पयति-यमयं व्यपदिशति स तु अगीतार्थः, न चाऽयमगीतार्थनिश्रया विहरति ततः स साधर्मिकः पुनरपि पृच्छति - 'अह भंते ' इत्यादि 'अह मंते कस कप्पाए' अथ भदन्त ! कस्याचार्यस्य कल्पेन कस्य निश्रया विहरसीति । सूत्रे 'कप्पाए' इत्यत्र स्त्रीत्वं प्राकृतत्वात् । एवमुक्ते 'जे तत्थ वहुस्सुए तं वएज्जा' यः कोऽपि तत्र स्थाने बहुश्रुतस्तं वदेत् तस्य सर्वरत्ना धिकस्याचार्यस्याऽगीतार्थस्य यो गीतार्थः शिष्यः सूत्रार्थनिष्णातः समस्तस्यापि गणस्य तृप्तिकारकस्तस्य नाम गृह्णीयात्, यद् अमुकस्य निश्रयाऽहं विहरामीति वदेत् - 'जं वा से भगवं वक्खइ' यं वा स भगवान् ज्ञानादिसंपदासम्पन्नः वक्ष्यति कथयिष्यति यथाऽमुकस्याऽऽज्ञा त्वया परिपालनीये - ति, 'तस्स आणाउववायवयणनिदेसे चिट्ठिस्सामि' तस्यैव आज्ञोपपातवचननिर्देशे आज्ञा च उपपातश्च वचननिर्देशश्चेति समाहारद्वन्द्वः, तेन आज्ञायाम् उपपाते - समीपे, वचननिर्देशे आदेशप्रतीक्षायां च स्थास्या - मीति ॥ सू०१८ ॥
पूर्वसूत्रे आज्ञायां स्थास्यामीत्युक्तम्, इत्यनेन गुरूणामाज्ञा बलवती भवति - 'आज्ञासारश्च गच्छवासः' इति ध्वनितम् ततः शरीरस्य प्रतिरोद्धुमशक्तं श्वासोच्छासनिमेषादिक्रियाव्यापारं मुक्त्वा सर्वेषु व्यापारेषु गुर्वाज्ञा पालनीयेति तदर्थप्रतिपादनार्थमिदं सूत्रमाह - ' वहवे साहम्मिया' इत्यादि ।
सूत्रम् - - बहवे साहम्मिया इच्छेज्जा एगयओ अभिनिचरियं चारए णो व्हं कप्पर थेरे अणापुच्छित्ता एगयओ अभिनिचरियं चारए, कप्पइ ण्हं थेरे आपुच्छित्ता एगयओ अभिनिचरियं चारए, थेरा य से वियरेज्जा एवं ह कप्पइ एगयओ अभिनिचरियं चारए, थेरा य से नो वियरेज्जा एवं हं नो कप्पर एगयओ अभिनिचरिथं चारए, जं तत्थ थेरेहिं अविणे एगयओ अभिनिचरियं चरंति से अंतरा छेए वा परिहारे वा ॥ सू० १९ ॥
छाया - बहवः साधर्मिका इच्छेयुरेकतोऽभिनिचरिकां चरितुम् नो खलु कल्पते स्थविराननापृच्छय एकतोऽभिनिचरिकां चरितुम्, कल्पते खलु स्थविरानापृच्छय एकतोऽभिनिचरिकां चरितुम् स्थविराश्च ते वितरेयुः एवं खलु कल्पते एकतोऽभिनिचरिकां चरितुम् स्थविराश्च ते नो वितरेयुः एवं खलु नो कल्पतेऽभिनिचरिकां चरितुम्, यत्तत्र स्थविरैरवितीर्णे पकतोऽभिचरिकां चरन्ति तेषां सान्तरात् छेदो वा परिहारो वा ॥ सू०१९॥
9