________________
घ्यवहारसूत्रे
भाष्यम्--'आयरियउवज्झाए' आचार्यः उपाध्यायश्च सरेमाणे स्मरन् अयमुपस्थापनाई इति जानानः नवदीक्षितोऽयं छेदोपस्थापनीयचारित्रं प्राप्तुं योग्योऽस्ति, इत्येवं जानानः 'परं चउरायपंचरायाओ' परं चतूरात्रात् पञ्चरात्राद्वा 'कप्पागं' कल्पाकं यः पइजीवनिकादिसूत्रार्थ प्राप्तस्त 'भिक्खु भिक्षु नवदीक्षितं मुनिम् ‘णो उपहावेइ' नो उपस्थापयति-छेदोपस्थापनीयचारित्रं न समर्पयति तदा आचार्यस्योपाध्यायस्य वा छेदपरिहारादि प्रायश्चित्तमापद्यते । तत्र यदि कदाचित् 'कप्पागे' कल्पाके छेदोपस्थापनोयचारित्रप्राप्तियोग्ये तस्मिन् सति 'अत्यि याई से केइ माणणिज्जे कप्पागे' अस्ति चाऽपि 'से' तस्य महाव्रतरोपणयोग्यनवदीक्षितश्रमणस्य कश्चित् माननीयः संसारपर्यायिकः पिता ज्येष्ठो भ्राता, भन्यो वा कश्चित् स्वामी कल्पाकः भावी पञ्चमहावतारोपणयोग्यः सः नवदीक्षितः प्रतिक्रमण न जानाति पञ्चरात्रेण दशरात्रेण पञ्चदशरात्रेण वा सहैव महावतारोपणमावश्यकं भवेत् तदा 'से' तस्य आचार्यस्य उपाध्यायस्य वा 'पत्थि याइं से केई छेए वा परिहारे वा' नास्ति न भवति कश्चित्तस्याचार्यस्योपाध्यायस्य वा छेदो वा परिहारो वा उपलक्षणादन्यदपि दशरात्रतपःप्रमृतिकं वा प्रायश्चित्तम् । यदि नवदीक्षितस्य महाव्रतारोपणयोग्यतायुक्तस्याऽपि यदि माननीयः पितादिर्भवति स च दशरात्रात्पर प्रतिक्रमणाभ्यासाऽनन्तरं महावतस्याधिकारी भविष्यतीति ज्ञात्वा आचार्यः 'उभयोः सहैव पञ्चमहावतारोपणं फरिप्यामि' इति कृत्वा पूर्वदीक्षितस्योपस्थापने विलम्बं करोति तदा आचार्यस्य उपाध्यायस्य वा छेदादिकं प्रायश्चित्तं न भवति, माननीयेऽनुत्थापिते तस्योपस्थापनायाः अयोग्यत्वादिति । 'नत्यि याइं से केइ माणणिज्जे कप्पागे' अथ नास्ति चाऽपि कश्चित् नवदीक्षितस्य माननीयः भावी कल्पाकः उपस्थापनायोग्यः पितादिः तदा चतूरात्रात् पञ्चरात्राद्वा परमपि नोपस्थापयति तदा 'से' तस्याचार्यस्योपाध्यायस्य वा 'संतरा छेए वा परिहारे वा' सान्तरात् स्वकृतात्-अन्तरात् अपराधात् यावन्ति दिनानि तस्योपस्थापनेऽन्तरितानि तावन्ति दिनानीत्यर्थः छेदो वा परिहारो वा छेदनामकं परिहारनामकं पञ्चरात्रादिकं तपःप्रमृतिकं वा प्रायश्चित्तं भवति ।
अयं भावः-यदि चतूरात्रात्परमन्यानि चत्वारि दिनानि यावत् नोपस्थापयति तदा आचार्यस्य उपाध्यायस्य वा प्रत्येकं प्रत्येक दिनचतुष्टये-प्रथमचतुष्टये द्वितीयचतुष्टये च प्रायश्चित्तं चतुर्गुरुकं भवति । अथ यदि प्रथमद्वितीयचतुष्कादनन्तरमन्यानि चत्वारि दिनानि लक्ष्यति तत्र नोपस्थापयति तदा षइलघुकं प्रायश्चित्तं भवति, ततोऽप्यन्यानि चत्वारि दिनानि अतिवाहयति चेत् तदा षड्गुरुकं प्रायश्चित्तं भवति । ततोऽपि यद्यन्यानि चत्वारि दिनानि लञ्चयति तदा चतुर्गुरुकश्छेदः प्रायश्चित्तं भवति । ततः परं यद्यन्यानि चत्वारि दिनानि लश्चयति, तदा षड्गुरुकश्छेदः प्रायश्चित्तं भवति । तदनन्तरमेकैकदिवसातिक्रमे मूलाऽनवस्थाप्यपाराश्चितानि प्रायश्चित्तरूपेण भवन्तीति ।