________________
भाष्यम् उ० ४ सू० १४-१५ मरणासन्नाचार्याद्यनुशाते तत्पश्चात्पदानविधिः ११३ तेसि च णं समुकिलुसि परो वएज्जा दुस्समुक्टिं ते अज्जो निक्खिवाहि, तस्स णं निक्खिवमाणस्स नत्थि केइ छेए वा परिहारे वा, जे साहम्मिया अहाकप्पेणं नो अब्भुट्टाए विहरंति सव्वेसिं तेसिं तप्पत्तियं छेए वा परिहारे वा ॥ सू० १४ ॥
_छाया-आचार्योपाध्यायोऽवधावन् अन्यतरं वदेत् आर्य! मयि खलु अवधाविते सति अयं समुत्कर्पयितव्यः, स च समुत्कर्षणाहः समुत्कर्षयितव्यः स च नो समुत्कर्पणाहों नो समुत्कर्षयितव्यः, अस्ति चात्रऽन्यः कश्चित् समुत्कर्पणार्हः समुत्कर्पयितव्यः, नास्ति चात्राऽन्यः कश्चित् समुत्कर्पणाहः स एव समुत्कर्पयितव्यः, तस्मिंश्च खलु समुत्कृष्टे परो वदेत् दुःसमुत्कृष्टं ते आर्य ! निक्षिप, तस्य खलु निक्षिपतो नास्ति कश्चित् छेदो वा परिहारो वा, ये साधर्मिकाः यथाकल्पेन न अभ्युत्थाय विहरन्ति सर्वेपां तेषां तत्प्रत्ययिकं छेदो वा परिहारो वा ॥ सू० १४ ॥
__ भाष्यम्-'आयरियउवज्झाए' आचार्योपाध्याय आचार्य उपाध्यायश्च 'ओहायमाणे' अवधावन् मोहेन रोगेण वा लिङ्गं सदोरकमुखवस्त्रिकारजोहरणलक्षणं परित्यज्य गच्छान्निस्सरन् अयं गच्छसापेक्षोऽतो गमनात्प्रागेव 'अन्नयरं' अन्यतरम् उपाध्यायं प्रवर्तकं स्थविरं गणिनं गणघरं गणावच्छेदकं वा 'वएज्जा' वदेत् , किं वदेत् ? तत्राह 'अज्जो ! ममंसिणं
ओहावियंसि' हे आर्य | मयि खलु अवधाविते चारित्रलिङ्ग मुक्त्वा गते सति 'अयं समुक्कसियव्यो' अयममुक श्रमण मत्स्थाने समुत्कर्पयितव्यः-मम स्थाने स्थापनीयः । शेषं सर्वं त्रयोदशसूत्रवदेव व्याख्येयम् ॥ सू० १४ ॥
__पूर्वमवधाविताचार्योपाध्यायविषयकं सूत्रमुक्तम् , अवधावितश्च स यदि भग्नव्रतो जायेत, भग्नवतो भूत्वा ततो यदि स शुभकर्मोदयात्पश्चात्तापपूर्वकं पुनरुपतिष्ठति, पुनरुपस्थिते सति तस्मिन् उपस्थापना कर्तव्या भवति, तत्प्रसङ्गाद् उपस्थापनाप्रतिपादनार्थ सूत्रमाह-'आयरियउवज्झाए सरेमाणे' इत्यादि ।
सूत्रम् - आयरियउवज्झाए सरेमाणे परं चउरायपंचरायाओ कप्पागं भिक्खं नो उवहावेइ कप्पाए, अत्थि याई से केइ माणणिज्जे कप्पागे णत्थि याई से केइ छेए वा परिहारे वा, णत्थि याई से केइ माणणिज्जे कप्पाए से संतरा छेए वा परिहारे वा ।। सू० १५ ॥
छाया-आचार्योपाध्यायः स्मरन् परं चतुरात्रपञ्चरात्रात् कल्पाकं भिक्षु नो उपस्थापयति कल्पाके, अस्ति तस्य माननीयः कल्पाकः नास्ति चापि तस्य कोऽपि छेदो वा परिहारो वा, नास्ति चापि तस्य कश्चित् माननीयः कल्पाकः तस्य सान्तरात् छेदो वा परिहारो वा ॥ सू० १५॥
व्य १५