________________
व्यवहारसूत्र
पूर्वम् ऋतुबद्धकालवर्षाकालमधिकृत्य एकैकाचार्योपाध्यायगणावच्छेदकविषयं कल्पाकल्पसूत्राष्टकं प्रतिपादितम्, साम्प्रतं तदेव कालद्वयमधिकृत्याऽनेकाचार्योपाध्यायगणावच्छेदकविषय सूत्रद्वयमभिधातुकामः पूर्वं हेमन्तग्रीष्मकालमधिकृत्य सूत्रमाह-'से गामंसि वा' इत्यादि ।
सूत्रम्-से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कब्बडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाहंसि वा संनिवेसंसि वा वहूर्ण आयरियउवज्झायाणं अप्पविइयाणं, वहणं गच्छावच्छेययाणं अप्पतइयाणं कप्पइ हेमंतगिम्हासु चरित्तए अन्नमन्ननिस्साए ॥ सू० ९ ॥
छाया-अथ ग्रामे वा नगरे वा राजधान्यां वा खेटके वा कव्यडे वा मडम्ने वा पत्तने वा द्रोणमुखे वा आश्रमे वा संवाहे वा संनिवेशे वा बहूनामाचार्योपाध्यायानामात्मद्वितीयानाम् बहूनां गणावच्छेदकानामात्मतृतीयानाम् कल्पते हेमन्तग्रीष्मेपु चरितुम् अन्योऽन्यनिश्रया ॥ सू० ९ ॥
भाष्यम्-'से गामंसि वा' इति । 'से' अत्र 'से' शब्दोऽथशव्दार्थक', तथाच-अथानन्तरं प्रत्येकाचार्यादिविषयकविधिप्रतिपेधप्रदर्शनानन्तरम् ‘गामंसि वाः' ग्रामे वा ग्रामविषये, तत्र ग्रामा वृतिवेष्टितः, तस्मिन् 'नगरंसि वा' नगरे वा, तत्र नगरं गोमहिण्यादीनामष्टादशकरवर्जितम् , तस्मिन् 'निगमंसि वा' निगमे वा, निगमः वणिजां व्यापारस्थानम् , तस्मिन् वा, 'रायहाणीए वा' राजधान्यां वा, तत्र राजधानी राज्ञो निवासस्थानम् , तत्र वा, 'खेडंसिवा' खेटे वा, तत्र खेटो धूलिनिमितप्राकारपरिवेष्टितं जननिवासस्थानं, तस्मिन् , 'कव्वडंसिवा' कर्बटे वा कुत्सितनगरे 'मडंवंसिवा' मडम्वे वा, मडम्बः-सार्घक्रोशद्वयान्तर्गतग्रामरहितः प्रदेशः, तत्र, 'पट्टणंसि वा' पत्तने वा, पत्तनं जलपत्तनं स्थलपत्तनमिति द्विविधम् , नौभिः शकटैर्वा प्राप्यं नगरं पत्तनं भवति, तत्र वा, 'दोणमुहंसि वा' द्रोणमुखे वा, तत्र द्रोणमुखो नाम जलस्थलमार्गयोः संमेलनस्थानम् , तत्र वा, 'आसमंसि वा' आश्रमे वा तापसादीनां निवासस्थाने वा 'संबाइंसि वा' सबाहे वा, तत्र संबाहः कृषिवलैर्घान्यरक्षार्थ निर्मितं दुर्गभूमिस्थानम् , तत्र वा, 'संनिवेसंसि वा' सन्निवेशे वा, तत्र संनिवेशःसमागतसार्थवाहादिनिवासस्थानम् , तत्र वा, 'बहणं' बहूनामनेकेषां द्वित्रिप्रभृतीनाम् 'आयरियउवज्झायाण आचार्योपाध्यायानाम् आचार्याणामुपाध्यायाना चेत्यर्थः । कथम्भूतानाम् ? तत्राह 'अप्पविइयाणं' आत्मद्वितीयानाम् , आत्मना द्वितीयानाम् आत्मभिन्नैकसाधुयुक्तानाम् 'वहूणं गणावच्छेययाणं' वहूनामनेकेषां गणावच्छेदकानाम् 'अप्पतइयाणं' आत्मतृतीयानाम् आत्मना सह तृतीयानाम् द्वौ सहायको तृतीयश्च स्वयं तेषाम् ‘कप्पई' कल्पते 'हेमंतगिम्हासु' हेमन्तग्रीष्मेषु ऋतुबद्धकाले इत्यर्थः 'चरित्तए' चरितुं विहर्तुम् । कथं कल्पते ? इत्याह-'अन्नमन्ननिस्साए' अन्योऽन्यनिश्रया परस्परोपसंपदमाश्रित्येति यथा-एकस्याचार्यस्यैकः शिष्यः, द्वितीयः स्वयम् , एवं प्रत्येकं द्वितीयादीनां द्वौ द्वौ मिलित्वा चतुःसंख्यकादय आचार्याः, एवमेकस्य गणावच्छेदस्य