________________
भाष्यम् उ० ३ ० २३-२५
बहुशो मायामृवादिसेवने आचार्यादिपदनिषेधः ९९ त्यागपरित्यागपरकमिति पञ्च सूत्राणि मैथुनसेवनविषयाणि सन्तीति ५ । एवमेवाऽवधावनमधिकृत्यैकं भिक्षुसूत्रम् १, पदाsपरित्यागपरित्यागमाश्रित्य गणावच्छेदकसूत्रद्वयम् ३, आचार्योपाध्यायसूत्रद्वयं चेत्यवधावनपरकाणि पञ्चसूत्राणि ५ । एवं दश सूत्राणि त्रयोदशसूत्रादारम्य द्वाविंशतिसूत्रपर्यन्तानि प्रायः समानव्याख्यानानि सन्तीत्यवधेयम् । अयं भावः - स्वपदाऽनिक्षेपणसूत्रद्विके गणावच्छेदका - चार्योपाध्यायाः प्रत्यागता अनर्पिताजावर्गाजापालकवत् यावज्जीवमाचार्यादिपदानामन एव । स्वपदनिक्षेपणसूत्रद्वये तु अर्पिताजावर्गाजापालकदृष्टान्तेन पूर्वोक्तप्रकारेण त्रिसंवत्सरातिक्रमे आचार्यादिपदानां योग्याः भवन्तीति ॥ सू०२२ ॥
पूर्वमवधावनमधिकृत्य भिक्षुप्रभृतीनि पञ्च सूत्राणि व्याख्यातानि साम्प्रतं मायादियुक्तबहुश्रुतवह्नागमभिक्षुगणावच्छेदकाचार्योपाध्याय विषयाणि सप्त सूत्राणि वक्ष्यन्ते, तत्रैषामेवैकवचनमाश्रित्य त्रीणि सूत्राणि ३ । एवं बहुवचनमाश्रित्य त्रीणि सूत्राणि ६ । तथा एषामेव समुच्चयेन बहुवचनमाश्रित्यैकं सूत्रम् ७ । एवं सप्त सूत्राणि कथयिष्यन्ते तत्र सप्तसु सूत्रेषु प्रथममेकवचनेन भिक्षुसूत्रमाह-- ' भिक्खु य वहुस्सुए' इत्यादि ।
सूत्रम् - भिक्खू य बहुस्सु वन्भागमे बहुसो बहुसु आगाढाग । देसु कारणेसु भाई मुसावा असुई पापजीवी, जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणात्रच्छेयगत्तं वा उद्दित्तिए वा धारितए वा ।। सू० २३||
छाया - भिक्षुश्च बहुश्रुतो बह्नागमः बहुशो बहुपु आगाढागाढेषु कारणेषु मायी मृषावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टु वा धारयितुं वा ॥ सू० २३ ॥
भाष्यम् – 'भिक्खू य' भिक्षुश्च 'बहुस्सुए' बहुश्रुतः बहु - अधिकं श्रुतं सूत्रमभ्यासेयस्य स बहुश्रुतः अनेकप्रकारक सूत्रज्ञातेत्यर्थः । तथा 'बभागमे बह्वागमः बहुरधिक आगमः आगमार्थपरिज्ञानं यस्य स बह्नागमः अनेकाऽनेकविधसूत्रार्थतदुभयज्ञातेत्यर्थः ' बहुसु' बहुषु बहुप्रकारकेषु 'आगाढागाढेसु कारणेसु' आगाढागाढकारणं यत् सचित्ताचित्तविषये विवादास्पदीभूतमपि कुलगणसंघस्याहारोपधिशय्याद्युपग्रहे वर्त्तते, तादृशेषु आगाढागाढेषु कारणेपु 'बहुसो' बहुशोऽनेकवारम् ‘माई' मायी मायावी परच्छिद्रान्वेषित्वात् तेन मायित्वेन 'मुसावाई' मृषावादी असत्यभाषणकारी अत एव 'असुई' अशुचिः अशुद्धाऽऽङ्गारादिसेवनादशुद्धान्तःकरणः, अत एव 'पावजीवी' पापजीवी पापकर्मणा जीवनशीलः मायादिकपटमाश्रित्य बहुशोऽकृत्य करणात् पापिष्ठ इत्यर्थः । एतादृशो यो भिक्षः 'तस्स' तस्य भिक्षो. 'जावज्जीवाए' यावज्जीवं जीवनपर्यन्तम् 'तप्पत्तियं' तत्प्रत्ययिकं मायामृषादिकारणकम् 'नो कप्पड़' नो कल्पते आयरियत्तं वा जाव गणा