________________
भाष्यम् उ० ३ सू० १९-२२
अवधावितस्य पुनरागमने पदानविधिः ९७
mmmmmmmmmmmmmmmmmmmmmmmmm भाष्यम् -'गणावच्छेइए' गणावच्छेदकः 'गणावच्छेयगत्त' गणावच्छेदकत्वम् - गणावच्छेदकपदवीम् 'अनिक्खिवित्ता' अनिक्षिप्य अपरित्यज्य साधुवेषेणैवेत्यर्थः 'ओहावेज्जा' अवधावेत् मैथुनार्थ देशान्तरं गच्छेत् , गत्वा च तद्वेपेणैव मैथुनं प्रतिसेवते, प्रतिसेव्य पुनरागत्य दीक्षां गृह्णाति तदा 'जावज्जीवाए तस्स' यावज्जीवं जोवनपर्यन्तं तस्य तादृशस्यावधावितस्य पुनगृहीतदीक्षस्य 'तप्पत्तियं' तत्प्रत्ययिक मैथुनार्थमवधावनकारणकम् 'नो कप्पइ' नो कल्पते 'आयरियत्तं वा उवज्झायत्तं वा । इत्यादि सर्वं पूर्वोक्तपदवोसहितमैथुनधर्मसेविगणावच्छेदकसूत्रचतुर्दशवदेव व्याख्येयम् ॥ सू० १९ ॥
सम्प्रति त्यक्तपदवीकगणावच्छेदकस्यावधावनसूत्रमाह-'गणावगच्छेयए' इत्यादि ।
सूत्रम् -गणावच्छेयए गणावच्छेयगत्तं निक्खिवित्ता ओहाएज्जा तिण्णि संवच्छराणि तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उदि सित्तए वा धारित्तए वा, तिहिं संवच्छरेहिं बीइक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्टियंसि ठियस्स उवसंतस्स उवरयस्स परिविरयस्स निविगारस्स एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा दिसित्तए वा धारित्तए वा ॥ सू० २०॥
छाया-गणावच्छेदको गणावच्छेदकत्वं निक्षिप्याऽवधावेत् त्रीणि संवत्सराणि तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्व वा उद्देष्टुं वा धारयितं वा, त्रिपु संवत्सरेपु व्यतिक्रान्तेपु चतुर्थ के संवत्सरे प्रस्थिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिविरतस्य निर्विकारस्य एवं तस्य कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २० ॥ __ भाष्यम्-'गणावच्छेइए' गणावच्छेदकः गणावच्छेयगत्तं गणावच्छेदकत्वं गणावच्छेदकपदवीम् 'निक्खिवित्ता' निक्षिप्य परित्यज्य 'ओहावेज्जा' अवधावेत् मैथुनसेवनार्थ देशान्तरं प्रत्यवधावनं कुर्यात, तत्र मैथुनं प्रतिसेवते इति भावः । प्रतिसेव्य च शुभकर्मोदयात् पुनः प्रत्यावृत्य दीक्षितो भवेत् , तदा तस्य 'तिण्णि सवच्छराणि' त्रीणि संवत्सराणि, इत्यादि सर्व पदवीपरित्यागपूर्वकमैथुनसेविगणावच्छेदकपश्चदशसूत्रवद् व्याख्येयम् ।। सू० २०॥
__ पूर्व पदवीसहितपदवीपरित्यागपूर्वकावधावकगणावच्छेदकविषयकं सूत्रद्वयमुक्त्वा सम्प्रति तद्विषयकमेवाऽऽचार्योपाध्याय-सूत्रद्वयमुच्यते, तत्र प्रथम पदवीसहितावधावनविषयकमाचार्योपाध्यायसूत्रमाह-'आयरियउवज्झाए' इत्यादि ।
सूत्रम्- आयरियउवज्झाए आयरियउवज्झायत्त अनिक्खिवित्ता ओहाएज्जा जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० २१ ॥
व्य. १३