SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ सू० १३-१५ . मैथुनसेविभिक्षुकादेः पुनरागमने पददानविधिः ९३ च भाषते सूत्रार्थयोरुपदेष्टा गणी भवति ५। गणधरः गणस्य स्मारणावारणाकारकः ६। गणावच्छेदकस्तु यः परमादिशति, श्रमणसमुदायस्य गणवासिनः संरक्षणं करोति, तथा साधुसमुदाय गृहीत्वा तदाधाराय नवीनक्षेत्रस्योपध्युपकरणादीनां च गवेषणार्थमन्यान्यजनपदे सम्यक् विहृत्य गच्छार्थमवग्रहोपग्रहादिकं करोति स गणावच्छेदकः कथ्यते ७ । एतत् पूर्वोक्तं सर्वमाचार्यादिपदसमूहम् 'उदिसित्तए वा धारित्तए वा' उद्देष्टुं वा अनुज्ञातुमित्यर्थः धारयितुं वा तस्य स्वयं धारयितुं वा नो कल्पते इति किन्तु-तिहिं संवच्छरेहिं' अत्र तृतीया सप्तम्यर्थस्य धोतिका ततश्च पुनर्गृहीतदीक्षापर्यायस्य त्रिषु वर्षेषु 'वीइक्कंते हिं' व्यतिक्रान्तेषु गतेषु वर्षत्रयेष्वित्यर्थः यस्मिन् दिने पुनर्दीक्षां गृहीतवान् तदिवसादारम्य यावत्पर्यन्तं वर्षत्रयं परिसमाप्तं भवेत् इति भावः 'चउत्थगंसि संवच्छ रंसि' चतुर्थे संवत्सरे ‘पट्ठियंसि' प्रस्थिते संप्राप्ते चतुर्थे वर्षे प्रवतितुमारब्धे सति 'ठियस्स' स्थितस्य स्थितपरिणामस्य, पुन. किंविशिष्टस्य ? तत्राह-'उवसंतस्सं' उपशान्तस्य उपशान्तवेदोदयस्य, तच्चोपशान्तत्व मैथुनविषयकप्रवृत्तिप्रतिषेधमात्रेणोपि संभवति तत्राह-'उवरयस्स' उपरतस्य मैथुनाभिलाषात् प्रतिनिवृत्तस्य, मैंथुनाभिलाषप्रतिनिवृत्तत्वं तु दाक्षिण्यवशमात्रतोऽपि भवितुमर्हति तत आह-'पडिविरयस्स' प्रतिविरतस्य प्रति-मैथुनाभिलाषप्रातिकल्येन विरतः तद्विषयकविरतिमान् इति प्रतिविरतः तस्य, प्रतिविरतस्य, एतादृशप्रतिविरतत्वं विकाराऽदर्शनमात्रेणापि सभवेत् तत्राह-णिविगारस्स' निर्विकारस्य लेशतोऽपि मैथुनाभिलाषविकाररहितस्य श्रमणस्य ‘एवं से कप्पइ आयरियत्तं वा' एवं पूर्वोक्तप्रकारके श्रमणे ज्ञाते सति चतुर्थवर्षारम्भे 'वस्तुतोऽयं पूर्वोक्तगुणविशिष्टो जातः' इति निर्णये सतीत्यर्थः तस्य ताहशस्य उपशान्तत्वादिगुणयुक्तस्य श्रमणस्याऽऽचार्यत्वं वा 'जाव गणावच्छेयगत्तं वा' यावत् उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणघरत्व वा गणावच्छेदकत्वं वा 'उद्दिसित्तए वा' उद्देष्टुं वा समनुज्ञातुं वा 'धारित्तए वा' स्वयं वां धारयितुं तस्य कल्पते ॥ सू०१३ ॥ साम्प्रतमपरित्यक्तगणावच्छेदकपदस्य मैथुनसेवने आचार्यादिपदस्य निषेधसूत्रमाह-'गणावच्छेयए' इत्यादि । सूत्रम्- गणावच्छेयए गणावच्छेयगत्तं अनिक्खिवित्ता मेहुणधम्म पडिसेवेज्जा जावज्जीवाए तस्स तप्पत्तिय नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० १४॥ __ छाया-गणावच्छेदको गणावच्छेदकत्वमनिक्षिप्य मैथुनधर्म प्रतिसेवेत यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्व या उद्देष्टुं वा धारयितुं वा ।। सू० १४ ॥ भाष्यम्-'गणावच्छेयर' गणावच्छेदकः गणस्य साघुसमुदायस्य धारकः 'गणावच्छेयगत्त' गणावच्छेदकत्वं स्वस्य गणावच्छेदकपदवीम् 'अनिक्खिविता' अनिक्षिप्याऽपरित्यज्य गणावच्छे
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy