________________
व्यवहारसूत्र
निग्रन्ध्या वहवो गुणाः भवन्तीत्यतो निर्ग्रन्ध्या आचार्योपाध्यायप्रवर्तिनीसहितयैव स्थातव्यं न तद्हितयेति भावः ।। सू० १२ ॥
पूर्व निर्ग्रन्थनिन्धीभिराचार्यादिनिश्रां विना न स्थातव्यमिति प्रोक्तम्, साम्प्रतं गणान्निर्गत्य प्रतिसेवितमैथुनस्याचार्यादिपददाने विधिमाह-'भिक्खू य' इत्यादि ।
सूत्रम्-भिक्खू य गणाओ अवक्कम्म मेहुणं पडिसेवेज्जा तिणि संवच्छराणि तस्य तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयत्तं वा उद्दिसित्तए वा धारित्तए वा, तिहिं संवच्छरेहिं वीइक्कंतेहिं चउत्थगंसि संवच्छरंसि पट्ठियंसि ठियस्स उवसंतस्स उवरयस्स पडिविरयस्स णिबिगारस्स, एवं से कप्पइ आयरियत्तं वा जाव गणावच्छेयत्त वा उद्दिसित्तए वा धारित्तए वा ॥ सू० १३ ॥
___ छाया-भिक्षुश्च गणादवक्रम्य मैथुन प्रतिसेवेत त्रीणि संवत्सराणि तस्य तत्त्पत्यय नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा, त्रिपु संवत्सरेपु व्यतिक्रान्तेपुचतुर्थे संवत्सरे प्रथिते स्थितस्य उपशान्तस्य उपरतस्य प्रतिविरतस्थ निर्विकारस्य, एवं तस्य कल्पते आचार्यत्व वा यावत् गणावच्छेदकत्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० १३ ।।
भाष्यम्-'भिक्खू य' भिक्षुश्च ‘गणाओ' गणात् स्वकीयगच्छात् 'अवक्कम्म' अवक्रम्य गणाद्वहिनिःसृत्य साधुवेषं त्यक्त्वेत्यर्थः 'मेहुणं' मैथुनं 'पडिसेविज्जा' प्रतिसेवेत मोहनीयकर्मोदयतो मैथुनप्रतिसेवनं कृतवानित्यर्थः, ततः पश्चात् शुभकर्मोदयाद्भावविपरिणामेन पुनदीक्षागृह्णाति तदनन्तरम् 'तिणि संवच्छराणि' त्रीन् संवत्सरान् दीक्षादिवसादारभ्य त्रिसंख्यकानिवर्षाणि यावत् 'तस्स तप्पत्तियं तस्य पुतर्गृहीतसंयमस्य श्रमणस्य तत्प्रत्ययिक मैथुनसेवनकारणकं मैथुनसेवनापराधजनितं कारणमाश्रित्येत्यर्थः 'नो कप्पई' नो कल्पते 'आयरियत्तं वा आचायत्वं वा आचार्यस्य गणनायकस्य यत्पदं स्थानं तहा 'जाव गणावच्छेयगत्तं वा यावत् गणावच्छेदकत्वं वा गणावच्छेदकस्य पदमित्यर्थः, अत्र यावत्पदेन उपाध्यायत्वस्य प्रवर्तकत्वस्य स्थविरस्य गणिनो गणधरस्य च संग्रहो भवतीति तेनाचार्यादारम्यगणावच्छेदपदपर्यन्तं किमपि पदं तस्य दावा धत्त वा न कल्पते इत्यग्रेण सम्बन्धः। तत्राचार्यः-यो जघन्यतोऽष्टवर्षप्रवज्यापर्योयः श्रमणो निर्ग्रन्थः आचारकुशलः संयमकुशलः प्रवचनकुशलः प्रज्ञप्तिकुशल. संग्रहकुशलः उपग्रहकुशलोऽक्षताचारोऽभिन्नाचारोऽशबलाचारोऽसंक्लिष्टाचारो वहुश्रुतो बहागमो जघन्येन स्थानसमवायधरः उत्कर्षेण द्वादशाङ्गः धरः स आचार्यः १ । उपाध्यायस्तु यः सूत्रपाठकः स. २। प्रवर्तकस्तु य आचार्यकथनानुसारेण वैयावृत्यविषयेसाधून प्रवर्त्तयति स प्रवर्तकः कथ्यते ३ । यः संयमे सीदतः श्रमणान् स्थिरीकरोति उपदेशादिप्रदानेन स स्थैर्यसंपादनात् स्थविर इति कथ्यते ४ । गणी तु स भवति यः सूत्रमर्थ