________________
भाष्म् उ० ३ सू० ३
त्रिवर्षपर्यायस्योपाध्यायपददाविधिः ७९
यः स निर्ग्रन्थः, नहि भवति शाक्यादिभिक्षुर्द्रव्यभावोभयग्रन्थरहितः मतः स निर्ग्रन्थो न भवतीति निग्रन्थ इति कथितम् । स पुनः कथम्भूतः ? इति तद्विशेषणान्याह-'आयार०' इत्यादि, 'आयारकुसले' आचारकुशलः ज्ञानादिपश्चाऽऽचारदक्षः । कुशलो द्विधा भवति-द्रव्यतो भावतश्च । तत्र कुशल इति कुशं दर्भ लुनातीति कुशलः, यः कुशं दात्रेण यथा लुनाति न कचिदपि कुशो दात्रेण विच्छिन्नो भवति स द्रव्यकुशलः, यः पुनः ज्ञानादिपश्चविधाचाररुपेण दात्रेण कर्मरूपं कुशं लुनाति स भावकुशलः ज्ञानाद्याचारेण कर्मकुशलः कर्मच्छेदको यः स आचारकुशलः, आचारविषयकसम्यक्परिज्ञानवान् इत्यर्थः, अन्यथा कर्मकुशच्छेदकाऽनुपपत्तेः । अथवाकुशलशब्दो दक्षवाची तेनाऽऽचारे ज्ञातव्ये प्रयोक्तव्ये वा कुशलो दक्षः स आचारकुशल इति ।
अयं भावः-आचारकुशलः, तत्र आचारः ज्ञानाद्याचारविनयाचारभेदेन द्विविधः । तत्र ज्ञानाद्याचारो यथा-यः स्वस्वोचिते काले स्वाध्यायं प्रतिलेखनादिकं स्वोचितं तपश्च करोति, आत्मनो ज्ञानादिकमधिकं निर्मलतर च वाञ्छन् सदैव गुरुषु बहुमानपरो भवति । एष ज्ञानाघाचारः प्रतिपादितः । यो रत्नाधिकानामागच्छतामभ्युत्थानं करोति, आसनं ददाति, समागतानां पीठफलकाद्युपनयति, गच्छतां प्रति आसनादिकं नयति, तथा प्रतिलेखनानन्तरम् आगत्य आचार्यान् प्रार्थयति-आदिशतु भदन्त ! किं करोमीति, अभ्युपेतानामात्मसमीपवर्तित्वं करोति, यथानुरूपं रत्नाधिकानां कृतिकर्म करोति, मधुरं वदति, चापल्यकौकुच्यवञ्चनारहितो वर्तते, इत्यादिः सर्वोऽपि वीर्याचारोऽवसेयः । एवं ज्ञानाद्याचारे विनयाचारे च कुशलः स आचारकुशलः कथ्यते । 'संजमकुसले' संयमकुशलः, तत्र-संयमः पृथिवीकायसंयमादिभेदेन सप्तदशविधः, तस्मिन् संयमे ज्ञातव्ये परिपालने वा कुशलो दक्ष इति संयमकुशलः । अयं भावः-संयमकुशलो नामः यः उपकरणानामादानं निक्षेपणं च प्रतिलेख्य प्रमाय॑ च करोति । अनेन प्रेक्षासंयमः प्रमार्जनासंयमश्चोक्तः। एतद्ग्रहणेन तज्जातीयाः शेषा अप्युपेक्षादिसंयमानां ग्रहणं भवति । तथा यः शय्यामुपधिमाहारं च उद्गमोत्पादनैषणाशुद्धं गृह्णाति, संयोजनादिमण्डलदोषरहितं च भुङ्क्ते, स्थानशयनाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमार्य च करोति । य एतेषु सर्वेष्वपि संयमेषु स्मृतिमान् भवति स संयमकुशल कथ्यते 'स्मृतिमूलमनुष्ठानमवितथम्' इति वचनात् । पुनश्च-अप्रशस्तानां मनोवाक्काययोगानामपवर्जनम्, शुभानां चैषामभियोजनं करोति । तथा श्रोत्रादीन्द्रियाणां क्रोधादिकषायाणां च निग्रहं करोति । तथा श्रोत्रादीनीन्द्रियाणि तत्तद्विषये नो व्यापारयति, प्राप्तेषु च शुभाशुभेषु तद्विषयेषु शब्दाद्यर्थेषु राग द्वेषं च न करोति । उदयितुं प्रवृत्तान् क्रोधादीन् निरुणद्धि, उदयप्राप्तांस्तान् विफलीकरोति । तथा प्राणातिपाताद्याश्रवान् पिदधाति । आर्त्तरौद्रध्यानपरिहारेण धर्म्य शुक्ले च ध्यानेऽनिगूहितबलवीर्यतया प्रवृत्तो भवति । ततस्त्रिकरणविशुद्धो यो इहलोकाद्याशंसादिविप्रमुक्तत्वात् मनसाऽप्यसंयमान् अभिलाषान् नाभि