________________
व्यवहारसत्र
गणधारणेच्छुकस्य भिक्षोः 'कप्पइ' कल्पते 'थेरे आपुच्छित्ता' स्थविरान् आपृच्छय स्थविराज्ञामादाय 'गणं धारित्तए' गणं धारयितुम् । पृष्टेषु तेषु यदि 'थेरा य' स्थविराश्च 'वियरेज्जा' वितरेयुः गणधारणार्थमाज्ञां दद्युः 'धारय इमं गणं त्वम्' इति तदा 'से' तस्य 'कप्पइ' कल्पते 'गणं धारित्तए' गणं धारयितुं स्वसत्तायां कर्तुम् । 'थेरा य' यदि पृष्टा च ते स्थविराः 'नो वियरेज्जा' प्रतिकूलद्रव्यभावादिकारणवशात् नो वितरेयुः गणधारणस्याज्ञां नो दद्यु. तदा 'नो से कप्पइ' नो तस्य कल्पते 'गणं धारित्तए' गणं धारयितुम्-'आज्ञाप्रधाना जिनव्यवहाराः' इत्यतः स्थविराज्ञामन्तरेण गणं धारयितुं भिक्षोर्नो कल्पते इति भावः ।
___ यद्याचार्यः पूर्वोक्तस्वरूपं द्रव्यभावपरिच्छन्नं भिक्षु स्मारणावारणादिलब्धिसम्पन्नं गणनायकपदं धारयितुं योग्यं मत्वा गणधारणाज्ञां दद्यात् तदा स गणनायकपदे व्यवस्थितो भवितुमर्हति नान्यथेति तात्पर्यम् । यद्येवमकृत्वा 'जणं' यत् खलु 'थेरेहिं अविइण्ण' स्थविरैरवितीर्णम् अदत्तं 'गणं धारेज्जा' गणं धारयेत् स्थविराज्ञामन्तरेण तैरनाज्ञप्तं गणधारणं कुर्यात् तदा 'से' तस्य 'संतरा' सान्तरात् स्वकृतादन्तराद् , यद्वा यावत्कालं तेन गणो धारितः तावत्कालिकमन्तरमधिकृत्य प्रायश्चित्तं 'छेए वा परिहारे वा' छेदो वा परिहारो वा वाशब्दादन्यद्वा देशकालोचितं प्रायश्चित्तमापन्नं भवतीति सूत्रार्थः ।। सू० २ ॥
पूर्व भिक्षीगणधारणविधिमुपदर्य साम्प्रतम् उपाध्यायः कीदृग्गुणसम्पन्नो भवितुमर्हतीति उपाध्यायसूत्रमाह-'तिवासपरियाए' इत्यादि ।
सूत्रम्-विवासपरियाए समणे निग्गंथे आयारकुसले संजमकुसले पवयणकुसले पन्नत्तिकुसले संगहकुसले उवग्गहकुसले अक्खयायारे अभिन्नायारे असवलायारे असंकिलिट्ठायारे बहुस्सुए वभागमे जहन्नेणं आयारकप्पधरे कप्पइ उवायत्ताए उदिसित्तए ।। सू०३॥
छाया-त्रिवर्षपर्यायः श्रमणो निर्ग्रन्थ आचारकुशलः संयमकुशलः प्रवचनकुशलः प्रक्षप्तिकुशलः संग्रहकुशलः उपग्रहकुशलः अक्षताचारः अभिन्नाचारः अशवलाचारः असंक्लिष्टाचारः बहुश्रुतः वह्वागमः जघम्येन आचारकल्पधरः कल्पते उपाध्यायतया उद्देष्टुम् ।। सू० ३॥
भाष्यम्-'तिवासपरियाए' इति । त्रिवर्षपर्यायः त्रीणि वर्षाणि पर्यायः दीक्षापर्यायो जातो यस्य स त्रिवर्षपर्यायः प्रवज्याग्रहणानन्तरं त्रिवर्षात्मकः कालः संयमाराधने यस्य व्यतीतो भवेत् स त्रिवर्पपर्यायः कथ्यते । इत्थम्भूतः कः ? इत्याह-'समणे' इत्यादि, 'समणे' श्रमणः, तत्र श्राम्यति तपस्यति संयमाराधनाय तपस्यां करोति यः स श्रमणो भिक्षुकः । श्रमणस्तु कदाचित् शाक्यादिभिक्षुरपि भवतीत्यतः तेषां व्यवच्छेदायाह-णिग्गंथे' निर्ग्रन्थः, तत्र निर्गतः दूरं गतो प्रन्यात् द्रव्यतो धनधान्यहिरण्यादिरूपात् , भावतः कषायमिथ्यात्वाऽविरल्यादिलक्षणात्