SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ६८ चन्द्रप्राप्तिसूत्रे बाह्यमण्डलमुपसंक्रम्य चारं चरति तदा न किञ्चिल्लवणसमुद्रमवगाहते, तदा च उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्भवति जघन्यः द्वादशमुहूत्तों दिवसो भवति, इति पञ्चमप्रतिपत्तिस्पष्टीकरणम् ५, उपसंहारमाह-'एगे एवमाहंमु' एके एवमाहुः एके केचन पञ्चमप्रतिपत्तिवादिनः एवं पूर्वप्रदर्शितप्रकारेण माहुः कथयन्तीति ५। पूर्व परतीथिकानां पञ्च प्रतिपत्तयः प्रतिपादिताः, साम्प्रतं भगवान् तेषां मिथ्याभावप्रदर्शनार्थ स्वमतमुप्रदर्शयति-'वयं पुण' इत्यादि । 'वयं पुण' वयं पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'वयामो' बदामः कथयामः तच्छृणु 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'सम्वन्भंतर मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उपसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं' तदा खल "जंबुद्दीवं दीवं' जम्बूद्वीपम् द्वीपं 'असीई जोयणसयं' अशीतिः योजनशतं च अशीत्यधिक मकं शतं योजनानाम् 'ओगाहिला' अवगाह्य उल्लवय 'चार चरइ' चारं चरति 'तया गं' तदा खलु 'उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूर्तो दिवसो भवति 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहता राई भवई' द्वादशमुहर्ता रात्रिभवति 'ता' तावत् 'जया णं' यदा खलु हरिए' सूर्यः सव्ववाहिरं मंडलं' सर्ववायं मण्डलम् 'उपसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति 'तया णं तदा खलु 'लवणसमुई लवणसमुद्रं 'विणि वीसं जोयणसयाई त्रीणित्रिंशत् योजनशतानि त्रिंशदधिकानि त्रीणि शतानि (३३०) योजनानाम् 'ओगाहित्ता' अवगाह्य 'चारं चरई' चारं चरति 'तया णं' तदा खल 'उत्तमकट्टपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकपवती 'उक्कोसिया' उत्कर्षिका सर्वगुर्वी 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहर्ता रात्रिर्भवति 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवह' द्वादशमुहत्तों दिवसो भवतीति । 'गाहाओ भाणियवाओ अत्र सूत्रार्थसंग्रहविषया गाथा भणितव्याः ता नोपलभ्यन्ते । इति ॥सूत्र १०॥ ॥ प्रथमस्य मूळमामृतस्य पन्चमं माइतमामृतम् ॥१-५॥ अथ प्रथमस्य मामृतस्य षष्ठं मामृतमामृतम् । गतं प्रथमस्य मूलप्राभूतस्य पञ्चमं प्राभूतप्राभृतम् , अथ षष्ठमारभ्यते, तस्य चायमभिसम्बन्धः पूर्व संग्रहगाथायां यदुक्तम् 'केवइयं च विकंपई' कियत्कं च विकम्पते सूर्य एकेन रात्रिन्दिवेन कियन्मानं क्षेत्र चलति ? इत्यत्र प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्य षष्ठप्रामृतप्राभूतस्येदमादिसूत्रम्-'ता केवइयं' इत्यादि,
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy