________________
चन्द्रशिका अप्तिप्रकाटीका प्रा०१-५ सू०१० सूर्यस्य द्वीपसमुद्रावगाहनिरुपणम् ६७ सर्वबाह्यमण्डलविषयेऽपि वाच्यम् । 'नवरं नवरं केवलं, विशेषस्त्वयम् यदत्र 'अवड्ढे लवणसमुदं' अपार्द्ध लवणसमुद्रम् इति वाच्यम् तथाहि-यदा सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा खलु अपार्द्ध लवणसमुद्रमवगाह्य चारं चरतीति । तथा-'तया णं राइंदियं तहेव' तदा खल रात्रिन्दिवं तथैव रात्रिदिवसप्रमाणं तथैव प्रथमप्रतिपत्तिस्पष्टीकरणे सूर्यस्य सर्ववाह्यमण्डलसंचरणसमये यथा कथितं तथैवात्रापि वाच्यम् । यथा-यदा सूर्यः सर्वेबाह्यमण्डलमुपसंक्रम्यापाईलवणसमुद्रं वाऽवगाह्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहर्ता रात्रिर्भवति, तथा जघन्यकः द्वादशमुहतों दिवसो भवतीति । संपूर्ण आलापकप्रकारस्तु स्वयमूहनीयः । इति चतुर्थप्रतिपत्तिस्पष्टीकरणम् ॥४॥
- अथ पश्चमप्रतिपत्तिस्पष्टीकरणमाह-'तत्य जे ते' इत्यादि 'तत्थ' तत्र पञ्चसु प्रतिपत्तिषु जे ते' ये ते पञ्चमाः परतीथिकाः 'एवमामु' एवमाहु- एवं वक्ष्यमाणप्रकारेण कथयन्ति'ता' तावत् 'गो' नो नैव 'किंचि' किञ्चित् किञ्चिन्मात्रमपि 'दीवं वा समुदं वा' द्वीप वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'सरिए' सूर्यः 'चारं चरई' चारं चरति ते पञ्चमाः परतीर्थिकाः 'एवं' वक्ष्यमाणाशयेन 'आइंसु' आहुः कथयन्ति । तदेव प्रदर्शयति-'ता' तावत् 'जया णं' यदा खल 'सूरिए' सूर्यः 'सचन्मतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खल 'णो' ,नो नैव 'किंचि' किञ्चित् किञ्चिन्मात्रमपि जंबुद्दीचं दी' जम्बूद्वीपं द्वीपम् 'ओगाहित्ता' अवगाह्य 'सूरिए' सूर्यः 'चारं चरइ'-चारं चरति 'तया णं' तदा खल 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षवान् 'उक्कोसए'. , उत्कर्षकः सर्वोत्कृष्टः सकलसूर्यसंवत्सरदिवसमानप्रमाणादन्तिमगुरुप्रमाणयुक्तः 'अट्ठारसमुहुत्ते दिवसे भवइ' अष्टादशमुहूत्तों दिवसो भवति, 'तहेव' तथैव पूर्ववदेव रात्रिरपि विज्ञेया तथा च 'जहणिया दुवालसमुहत्ता' राई भवई' इति पाठं संयोज्य, जपन्यिका सर्वलध्वी सकलसूर्यसपत्सररात्रिमानप्रमाणादन्तिमलघुप्रमाणयुक्ता द्वादशमुहूर्ता रात्रिर्भवतीति । एवं पूर्वोक्तप्रकारेणैव 'सव्ववाहिरे मंडले' सर्वबाह्ये मण्डले भावना कर्त्तव्या 'नवरं' केवलं विशेष एतावानेव यत् सूर्यः ‘णो' नो नैव 'किंचि' किञ्चित् किश्चिन्मात्रमपि लवणसमुई' लवणसमुद्रम् 'ओगाहित्ता' अवगाह्य 'चारं चरई' चारं चरति । अयं भावः-पञ्चमास्तीर्थान्तरीया एवं कथयन्ति यत्-सूर्यः सर्वाभ्यन्तरमण्डलोपसंक्रमणकालेऽपि न किश्चिदपि जम्बूद्वीपमवगाहते किं पुनः शेषमण्डलपरिभ्रमणकाले । एवं सर्वबाह्यमण्डलोपसंक्रमणकालेऽपि सूर्यों लवणसमुद्रमपि न : किञ्चिदवगाहते कि पुनः शेपमण्डलपरिभ्रमणकाले । तर्हि कथं चारं चरति ? इत्याशङ्कायां शृणु-द्वीपसमुद्रयोरपान्तराल एव सकलेष्वपि मण्डलेषु चारं चरतीति । 'राई दियं तहेव' रात्रिन्दिवं तथैव रात्रिदिवसप्रमाणं पूर्वोक्तवदेव, तथा च-सूर्यो यदा. सर्व