________________
A.
चन्द्रप्रज्ञप्तिस्त्रे wwwmommmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm ह्यम् अन्तिमं व्यशीत्यधिकशततमं मण्डलम् ‘उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तया णं तदा खलु ‘लवणसमुई' लवणसमुद्रम् ‘एगं' इत्यादि-त्रयस्त्रिंशदधिकशतोत्तरक सहनं (११३३) योजनपरिमितं 'ओगाहित्ता' अवगाह्य 'चारं चरई' चारं चरति 'तया गं तदा खल 'उत्तमकहपत्ता' उत्तमकाष्ठाप्राप्ता परमप्रकर्षप्राप्ता 'उक्कोसिया' उत्कर्षिका सवोंस्कृष्टा 'अद्वारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिभवति, तथा 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति । इति प्रथमप्रतिपत्तिस्पष्टीकरणम् ॥१॥
- अथ द्वितीयप्रतिपत्तिस्पष्टीकरणमतिदेशेनाह-एवं' इत्यादि ‘एवं चोत्तीसं जोयणसयं' एवं चतुर्विद् योजनशतं चतुस्त्रिंशदधिकमेकं शतम् । एवम् प्रथमप्रतिपत्तिस्पष्टीकरणवदेव द्वितीयप्रतिपत्तिस्पष्टीकरणं सर्वं पठनीयं, विशेषस्त्वयम् तत्र-प्रथमप्रतिपत्ती त्रयस्त्रिशदधिकशतोत्तरैकसहस्रयोजनपरिमितं जम्बूद्वीपं सर्वाभ्यतरमण्डलोपर्सक्रमणसमये, एतावदेव सर्ववाह्यमण्डलोपसंक्रमणसमये लवणसमुद्रमवगाह्य सूर्पस्य चारं चरणमुक्तम् , अत्र द्वितीयप्रतिपत्तौ तु चतुनिशदधिकैकशतोत्तरैकसहस्रयोजनपरिमितं (११३४) जम्बूद्वीपं लवणसमुद्रं चावगाह्य सूर्यस्य चार चरणं परिभावनीयम् । इति द्वितीयप्रतिपत्तिस्पष्टीकरणम् २, अथ तृतीयप्रतिपत्तिस्पष्टीकरणमप्यतिदेशेनाह-'पणत्तीसे वि' इत्यादि । 'पणतीसे वि' पश्चत्रिंशत्यपि-पञ्चत्रिंशंदधिकशतोत्तरैकसहस्रयोजनपरिमितजम्बूद्वीपलवणसमुद्रावगाहनविषयेऽपि सर्व सूत्रम् ‘एवं चेव एवमेव प्रथमप्रतिपत्तिस्पष्टीकरणसूत्रवदेव 'भाणियचं' भणितव्यं कथितव्यम् । द्वयोरपि सूत्रालापक: स्वयमूहनीयः स्पष्टत्वान्नोल्लिखितः । इति तृतीयप्रतिपत्तिस्पष्टीकरणम् ३, अथ चतुर्थी प्रतिपत्तिस्पष्टीकरणमाह-'तत्थ जे ते' इत्यादि । 'तत्थ' तत्र पञ्चसु प्रतिपत्तिषु 'जे ते' ये ते चतुर्थप्रतिपत्तिवादिनोऽन्यतीर्थिकाः 'एवमाइंसु' एवम् अनेन वक्ष्यमाणेन प्रकारेण आहुः कथयन्ति “ता? तावत् 'अवड्ढं' अपार्द्धम् अपगर्द्धम् ' अर्द्धमात्रं "दीवं वा समुदं वा' द्वीपं वा समुद्रं वा 'ओगाहित्ता' अवगाह्य 'सरिए सूर्यः 'चारं चरइ चारं चरति, एवं कथयन्ति 'ते' ते चतुर्थास्तीर्थान्तरीयाः एवं' एवम् अनेन वक्ष्यमाणेन आशयेन 'आईसु' आहुः कथयन्ति, तथाहि-'जयाणं! यदा खल 'सरिए सूर्यः 'सव्वन्भंतरं मंडलं' - सर्वाभ्यन्तरं मण्डलम् ‘उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं तदा खलु 'अवड्ढं' अपार्द्धम् अपगतार्द्धम् । अर्द्धमात्र' 'जंबूद्दीवं दी' जम्बूद्वीपं दीपं मध्यजम्बूद्वीपम् 'ओगाहित्ता चारं चरइ' अवगाह्य चारं चरति 'तया णं, तदा खलु उत्तमकट्ठपत्ते' उत्तमकाष्ठाप्राप्तः 'उक्कोसए' उत्कर्षकः 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्तों दिवसो भवति, तथा 'जहणिया' जघन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भवई' द्वादशमुहर्ता रानिर्भवति, 'एवं सव्ववाहिरे वि' एवं अनेनैव प्रकारेण सर्वबाझेऽपि