SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-४ सू०९ द्वितीयपण्मासे द्वयोः सूयोरान्तर्यम् ६१ अन्योन्यस्य 'अंतरं' अन्तरं व्यवधानं 'निव्वुड्ढेमाणा २' निर्वर्धयन्तौ २' हापयन्तौ २ 'सबभतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उपसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः मण्डलान्मण्डलं गच्छत इति भावः । 'ता' तावत् 'जया णं' यदा खलु 'एए दुवे सूरिया' एतौ द्वौ सूर्यो ‘एवंरीत्या' संचरन्तौ 'सव्वभंतरं मंडलं' सर्वाभ्यन्तरं मण्डलम् 'उपसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'नवनवई जोयणसहस्साई नवनवतियोजनसहस्राणि छच्च' षट् 'चत्ताले' चत्वारिंशत् 'जोयणसयाई' योजनशतानि चत्वारिंशदधिकानि षट् शतानि योजनानां च (९९६४०) 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कट्ट' अन्तरं व्यवधानं कृत्वा 'चारं चरंति' चारं चरतः 'वया गं' तदा तस्मित् काले खलु 'उत्तमकट्टपत्ते उत्तमकाष्ठाप्राप्तः परम प्रकपसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः ततः परमाधिक्याभावात् 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमहत्तों दिवसो भवति, तथा 'जहणिया' जघन्यिका सर्वलम्वी ततः परं हीनत्वाभावात् 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्त्ता रात्रिर्भवति । अयं भावः द्वयोः सूर्ययोः सर्वाभ्यन्तरमण्डलस्थितौ चत्वारिंशदधिकपद शतोत्तरैनवनवतिसहस्रं योजन (९९६४०) संख्यकसर्वजघन्यमन्तरं भवति तथा सर्ववाह्यमण्डलस्थितौ पट्यधिकपट्शतोत्तरैकलक्षयोजन (१०.६६०) संख्यकं सर्वोत्कृष्टमन्तरं भवति। अत्र सर्वाभ्यन्तरमण्डलतः मर्ववाह्यमण्डलामनार्थ निष्क्रमणकाले द्वयोः सूर्ययोरन्तरस्य वृद्धिः, सर्वबाह्यमण्डलतः सर्वाभ्यन्तरमण्डलगमनाथ प्रवेशकाले च हानिर्भवतीति । उपसंहरन्नाह-एस गं' इत्यादि । 'एस णं' एतत् पूर्वोक्तं खल 'दोच्चे छम्मासे' द्वितीयं षण्मासम् । 'एस णं' एतत् खलु 'दोच्चस्स छम्मासस्स' द्वितीयस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानम् अन्तिममहोरात्रम् 'एस णं' एष खलु 'आइच्चे संवच्छरे' आदित्यः संवत्सरः पण्मासद्वयरूपो वर्त्तते । 'एस णं' एतत् खलु 'आइच्च संवच्छरस्स' आदित्यसंवत्सरस्य 'पज्जवसाणे' पर्यवसानम्-अन्तभागः ॥सू० ९॥ प्रथमस्य मूलप्राभृतस्य चतुर्थ प्राभृतमाभृतं समाप्तम् ॥१-४ ___ गतं प्रथमस्य मूलप्राभृतस्य चतुर्थ प्रामृतप्राभृतम् । अथ तद्वत पञ्चमं प्रारभ्यते, अस्य 'चायमभिसम्बन्धः पूर्वम् 'ओगाहइ केवइयं' कियन्तं द्वीपं समुद्रं वा सूर्योऽवगाहत इति यत् संग्रहगाथायां प्रोक्तं तदेवात्र प्रदर्शयिष्यते, इति सम्बन्धेनायातस्यास्य पञ्चमप्राभृतप्राभृतस्येदमादिमं सूत्रम् ‘ता केवइयं ' इत्यादि । ___ मूलम्-ता केवइयं ते दीवं वा समुई वा ओगाहित्ता सूरिए चार चरइ आहितेति वदेज्जा ? तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ, तंजहा-तत्थेगे एवमासु वा एगं जोयणसहस्सं एगं च तेत्तीस जोयणसयं दीवं वा समुई वा ओगाहिता सरिए
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy