SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ६४८ चन्द्रप्राप्तिस्त्रे । व्याख्या:-'ता चंदस्सणं' इत्यादि, । प्रश्नसूत्रं सुगमम् । भगवानाह-चन्द्रस्य खलु ज्योति पेन्द्रस्य ज्यौतिषराजस्य चतस्रोऽप्रमहिण्यः प्रज्ञताः । ता इमा:-चन्द्रप्रभा १ व्योत्स्नाभा २, मर्चिमाली, प्रभंकरा ४ इति । सुगम सर्वमेतत्सूत्रं तथापि भाव रूपेण व्याख्यायते-'तत्थ णं एगमेगाए' इत्यादि, तत्र खल तासु चतसृषु अग्रमहिषु एकैकस्या अग्रमहिण्याश्चत्वारिचत्वारि देवी सहवाणि परिवारइति परिवारत्वेन प्रज्ञप्तः । 'पभूण ताओ' इत्यादि प्रभवः समर्था खलु ताः सर्वा परिवार 'भूताः षोडश सहन देव्यः प्रत्येकम् एकैका देवी अपि अन्याः चतनश्चतम्रो देवीः विकुर्वितुम् समर्थाऽस्ति । एवं परिवारभूतानां देवीनां सर्वासां पूर्वापरसंमेलनेन स्वाभाविकानि पोडश देवी सहस्राणि भवन्तीति । पोंडश देवी सहवात्मकः समूहः त्रुटिक मिति कथ्यते । त्रुटिकमित्यन्तः पूरम् । ततः त्रुटिकेन सह चन्द्रावतंसके विमाने सुधर्मसभायां चन्द्रस्य दिव्यभोगभोगानां भोगसामर्थे गौतमस्य प्रश्न । भगवतो निषेधात्मकमुत्तरम्-'नायमढे समढे' इति नायमर्थः समर्थः चन्द्रदेवस्य त्रुटिकेन सार्द्ध दिव्यभोगानां भोगे सामर्थ्य नास्तीति भावः । कथं न सामर्थ्यम् । इति गौतमस्य प्रश्नः । भगवानाह-'ता चंदस्सणं, इत्यादि, चन्द्रस्य चन्द्रावतंसके विमाने सुधमायां सभायां माणवकनाम्नि चैन्यस्तम्भे स्थितेपु बज्रमयसिक्केषु वज्रमया गोलाकाराः समुद्काः सन्ति तेषु जिनसक्थीनि तिष्ठन्ति, तानि च ज्यौतिषिकाणं देवानां च अर्चनवन्दन संस्कार सम्मानयोग्यानि तथा कल्याणं मङ्गल्यं दैवतं चैत्यमिति कृत्वा पर्युपासनियानि इति ते देवा मन्यन्ते अतस्तत्र चन्द्रदेवस्त्रुटिकेन सार्द्ध दिव्यभोगमोगान् : भोक्तुं न समर्थः । किन्तु से 'ज्यौतिषेन्द्रो ज्यौषिराजश्चन्द्र देव चन्द्रावतंसके विमाने सभायां सुधर्मायां चान्द्रे सिंहासने चतुर्मि १ सामानिक देवसहस्रैः चनसृभिः सपरिवाराभिरग्रमहिषोभिः,' तिसृभिः पर्षद्गिः, सप्तभिरनीकै सन्य, सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहिने, अन्यैश्च बहुभिः ज्योतिषिक देवैः 'देवीभिश्च साई संपरिवृतो भूत्वा, महताहतनाटयगीतवादिवतन्त्रोतलताल त्रुटित घन मृदङ्ग पटुप्रवादितरवेण, तत्र महता रवेण इत्यग्रेण सम्बन्धः अथवा महत्त्वेन आहतानि अव्याहतानि नाटयगीतवादिवाणि, तथा तन्त्री-वीणा, ‘तलतालाः हस्तताला त्रुटितानि तूर्याणि, तथाधनि साधात् धनाकारो मृदङ्गः, स च पटुपुरुपेण प्रवादितः, एतेषां पदानां द्वन्द्वः, तेषां यो रवः 'शब्दस्तेन . तच्छब्दपूर्वक मित्यर्थः 'दिव्यान् ' भोगयोग्यान् भोगान् शब्दश्रवणमात्रान् मुजन् अनुभवन् विहर्त्त प्रमुः समर्थो भवति तत्तु 'परियारणिड्ढीए, परिचारण ऋद्धयैव नो चेव णं मेहुणवत्तियाए' न तु मैथुनवृत्तितया मैथुनवृत्त्या मैथुनबुद्धया भोक्तुं न समर्थ इति । अथ सूर्याप्रमहिषी विषय प्रश्नः ।। मंगवानाह-सूर्यस्यापि चतस्रोऽयमहिण्यः, तद्यथा सूरप्पभा' इत्यादि सूर्यप्रभा १ आतपा २ अचिर्माली ३ प्रभंकरा ४' इति । सेस जहा चंदस्स'शेषं सर्वं यथा चन्द्रस्य तथाऽवसेयम् नवरं विशेषः केवल मेतावानेव अत्र 'सूर्यावतंसकें
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy