________________
चन्द्राप्तिप्रकाशिकाटीका. प्रा.१८ सू.९ चन्द्रविमानवाहक देवानां संख्या ६४३
छाया-तावत् चन्द्रविमानं खलु भदन्त ! कति देवसाहस्व्यः परिवहन्ति ? षोडश देवसाहत्यः परिवहन्ति, तद्यथा पौरस्त्ये खलु सिंहरूपधारिणां चतस्रो देवसाहस्यः परिवहन्ति, दक्षिणे खलु गजरूपधारिणां चतस्रो देवसाहत्यः परिवहन्ति, पाश्चात्ये खलु वृपभरूपधारिणां चतस्रो देवसाहव्यः परिवहन्ति, उत्तरे सलु तुरग रूपधारिणां चतस्रो देवसाहस्यः परिवहन्ति । एवं सूर्यविमानमपि । तावत् ग्रह विमानं खलु भदन्त ? कति देवसाहस्त्र्यः परिवहन्ति ? तावत् अष्ट देवसाहस्यः परिवहन्ति, तं जहा-पौरस्त्ये खलु सिंहरूपधारिणां द्वे देवसाहत्यौ परिवहतः, एवं यावत् उत्तरे खलु तुरगरूपधारिणां द्वे देवसाहस्यौ परिवहतः । तावत् नक्षत्रविमानं खलु भदन्त । कति देवसाहस्यः परिवहन्ति ? तावत् चतस्रो देवसाहत्यः परिवहन्ति, तद्यथा-पौरस्त्ये खलु सिंहरूपधारिणाम् एका देवसाहव्यः परिवहति, एवं जाव उत्तरे खलु तुरगरूपधारिणां एका देवसाहस्री परिवहति । तावत् ताराविमानं खलु भदन्त ! कति देवसाहस्त्यः परिवहन्ति ? तावत् द्वे देवसाहस्त्र्यौ परिवहतः तद्यथा-पौरस्त्ये खलु सिंहरूपधारिणां देवानां पञ्च शतानि परिवहन्ति, एवं यावत् उत्तरे खलु तुरग रूपधारिणां देवानां पञ्च शतानि परिवहन्ति ॥ सू० ९॥ । व्याख्या-'चंदविमाणे णं भंते' इत्यादि प्रश्नसूत्रं सुगमम् । भगवानाह 'सोलसदेव- .. साहस्सीओ परिवहंति' चन्द्रविमानं षोडशसहस्रदेवा परिवहन्ति चतुर्दिक्षु तदेवाह 'तं. जहा' इत्यादि, 'तं जहा' तद्यथा-'पुरस्थिमेणं सीहरूपधारीणं चत्तारि देवसाहस्सीओ परिवहंति' पूर्वभागे चतुः सहस्रदेवाः सिंहरूपधारिणः परिवहन्ति । एवं दक्षिणे गजरूप . धारिणश्चतुःसहस्रदेवाः, पश्चिमे वृषभरूपधारिणश्चतुःसहस्रदेवाः, उत्तरे तुरंगरूधारिणः श्चतु सहस्रदेवाः, एवं षोडश सहस्रदेवाश्चन्द्रविमानं परिवहन्तीति । ‘एवं सूरियविमाणंपि' चन्द्रविमानवदेव सूर्यविमानमपि तेनैव रूपेण तादृश रूपधारिण एव पोडशहस्र देवाश्चतु-. दिक्षु परिवहन्ति । ग्रहविमानं पृच्छा-'ता अद्विसाहस्सीओ परिवहंति' ग्रहविमानमष्ट सहस्त्रदेवाः, प्रत्येकं दिशि द्विद्विसहस्त्रसंख्यकाः पूर्वोक्तसदृशरूपधारिणः परिवहन्ति । नक्षत्र विमानं पृच्छा-'ता चत्तारि देवसाहस्सीओ' नक्षत्रविमानं प्रत्येकं दिशि एकैकसहस्त्रत्वेन चतुः सहस्त्रदेवाः पूर्वोक्तरूपधारिणः पूर्वप्रदर्शितरीत्यैव परिवहन्ति । ताराविमान पृच्छा-'ता दो देवसाहस्सीओ' ताराविमानं प्रत्येकं दिशि पञ्चशतपञ्चशतत्वेन द्विसहस्रदेवाः पूर्ववदेव परिवहन्ति । चन्द्रादि विमानवाहकदेवानां संख्या प्रतिपादिके इमे द्वे गाथे जम्बूद्वीपप्रज्ञप्तिसूत्रे प्रोक्ते
"सोलसदेव सहस्सा वहंति चंदेसु चेव सुरेसु । अट्ठव सहस्साई, एक्केक्कमि गहविमाणे ॥१॥ चत्तारि सहस्साई, नक्खत्तमि य हवंति एक्कक्के । दो चेव सहस्साई, तारारूवेक्कमेक्कमि ॥२॥ इति