________________
१२८
चन्द्रप्राप्तिसूत्रे महाद्युतिकाः शरीराभरणादि कान्तिमन्तः, 'महावला' महाबलाः बलं शरीरसामर्थं तद्वन्तः, 'महानसा' महायशसः जगद्विस्तृतश्लाघा सम्पन्नाः, अत एव 'महासोक्खा' महासौख्याः भवनपतिव्यन्तरसुखेभ्यो विपुवसौख्यशालिनः 'महानुभावा' महानुभावाः-महान् अनुभाव प्रभावो क्रियकरणादि विषयकोऽचिन्त्य शक्ति विशेपो येषां ते तथा वैक्रियकरणादिविशिष्ट शक्ति सम्पन्नाः, 'वरवत्थधरा' वरवस्त्रधराः दिव्यवस्त्रधारिणः 'वरमल्लधरा' वरमाल्यधराः-दिव्य पुष्पमाला धारिणः, 'वरगंधधरा' वर गन्धधराः-घाण सुखद दिव्यगन्धधारिणः, 'वराभरणधरा' । वराभरणधरा-श्रेष्ठदिव्य कटक कुण्डल केयूरायाभूपणधारिणः, एतादृशास्ते चन्द्रसूर्याः 'अव्वोच्छित्तिनयट्टयाए' अव्युच्छित्तिनयार्थतया द्रव्यार्थिकनयमतेन 'काले' काले वक्ष्यमाण स्व वायुः क्षये 'अण्णे' अन्ये पूर्वोत्पन्नाः पूर्व ये तत्रावस्थितास्ते 'चयंति' च्यवन्ते स्वस्व विमानाच्च्युता भवन्ति, तथा 'अण्णे' अन्ये तदितरे तथा जगत्स्वाभाव्यात् जघन्येन एक समयम् उत्कृष्टेन पण्मासावधि विरहकालसद्भावः इति षष्मासादारतो नियमात् 'उववज्जति' उपपद्यन्ते, इत्यस्माकं केवलालोकेन दृष्टिगोचरीकृतं मतमिति । सू० १॥
॥ इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलाल व्रति विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्ति प्रकाशिकाख्यायां
व्याख्यायां सप्तदशं प्रामृतं समाप्तम् ॥१७॥