SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोका प्रा १७ सू.१ चन्द्रसूर्याणां च्यवनोपपातनिरूपणम् ६२७ अनयैव रीत्या उक्तालापक रूपया 'जहेव हेहा' यथैव अधस्तात्-षष्टे प्राभृते ओज' संस्थिति प्रकरणे चिन्त्यमाणे पञ्चविशति प्रतिपत्तयः अनुसमयमित्यारभ्य ,अनुसागरोपमशतसहस्रम्' इति पर्यन्तं चतुर्विंशति प्रतिपत्तयस्तत्र प्रोक्ताः 'तहेव' तथैव तेनैव रूपेण अत्र च्यवनो पपातविषयेऽपि वक्तव्या । कियत्पर्यन्तमित्याह-'जाव' यावत् पञ्चविंशतितमा प्रतिपत्तिरायाति तावत् वक्तव्याः । पञ्चविंशतितमा प्रतिपत्तिं सूत्रकारः स्वयमेवाह-'ता' एगे पुण' इत्यादि, 'ता' तावत् 'एगे पुण' के पश्चविंशतितम प्रतिपत्तिवादिनः पुनः 'एवं' एवम् वक्ष्यमाण प्रकारेण 'आहंग' आहुः कथयन्ति-'ता' तावत् 'अणुओसप्पिणी उस्सप्पिणीमेव' अन्ववसर्पिण्युत्मर्पिणी 'चंदिमसरिया चन्द्रसूर्याः 'अण्णे' चयति अन्ये च्यवन्ते 'अण्णे उववज्जंति' अन्ये उपद्यन्त उपसहारमाह-'एगे' एवम् पूर्वोक्ता अन्तिमपञ्चविंशतितमप्रतिपत्तिवादिनः एवं' एवम् - सर्वप्रदर्शितप्रकारेण 'आहेसु' आहुः कथयन्तीति पञ्चविंशतितमा प्रतिपत्तिः ॥२५|| अत्र प्रथमा द्वितीया पञ्चविंशतितमा च प्रतिपत्तिः सूत्रे एवं प्रदर्शिता मध्यमा तृतीया प्रतिपत्तित आग्भ्य चतुर्विं गति प्रतिपत्तिपर्यन्तं द्वाविंशतिः २२ प्रतिपत्तयो यावच्छन्द गाह्या पष्ठ प्राभृतस्थितौजः सस्थिति प्रकरणगताश्च संक्षेपेण प्रदश्यन्ते, तथाहि-तृतीया प्रति पत्तिवादिन 'अणुराइंदियमेव' इति ३। चतुर्थाः 'अणुपक्खमेव' 'इति ४।' पञ्चमाः 'अणुमासमेव' ५। 'पष्ठा 'अणुउउमेव' इति' सप्तमा 'अणुअयणमेव' इति ७ अष्टमाः 'अणुसंवच्छरमेव' इति ८ नवमाः 'अणुजुगमेव' इति ९। दशमाः 'अणुवाससयमेव' इति १०॥ एकादशाः 'अणुवाससहस्समेव' इति ११॥ द्वादशा: 'अणुवाससयसहस्समेवः इति १२॥ त्रयोदशा. 'अणुपुव्वमेव' इति १३ । चतुर्दशाः 'अणुपुव्वसयमेव' इति १४ । पञ्चदशाः 'अणुपुव्वसहस्समेव' इति १५ । पोडशाः 'अणुपुन्वसयसहस्समेव' इति १६ । सप्तदशाः 'अणुपलिओवममेव' इति १७ । अष्टादशाः 'अणुपलिओवमसयमेव' इति १८ एकोनविंशाः 'अणुपलिओवमसहस्समेव' इति १९ । विंशतितमाः 'अणुपलिओवमसयसहस्समेव' इति २० एकविंशतितमाः 'अणुसागरोवममेव' इति २१ । द्वाविंशतितमाः 'अणुसागरोवमसयमेव' इति २२ । त्रयोविंशतितमाः 'अणुसागरोवमसहस्समेव' इति २३ । चतुर्विशति तमाः 'अणुसाग रोवम सयसहस्समेवय' इति २४ एतास्तृतीयप्रतिपत्तित आरभ्य चतुर्विंशतितम प्रतिपत्तिपर्यन्ता द्वाविंशति प्रतिपतयो यावच्छब्दग्राह्या अत्रावसेयाः । आसां सर्वासामालापकप्रकारः स्वयमूहनीयइति । इत्येवं प्रोक्ता अन्यतीर्थिकमतरूपाः पञ्चविंशतिः प्रतिपत्तयः, सर्वा अपि मिथ्या रूपा एव ततो भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि, 'वयं पुण' वयं पुनः वयं तु 'एवं वक्ष्यमाणप्रकारेण 'वयामो' वदाम कथयामः 'ता' तावत् 'चंदिममरिया गं देवा' चन्द्रः सूर्या खलु देवाः महिढिया महद्धिका विमानपरिवारादि संपन्नाः, 'महाजुइया'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy