________________
-
--
चन्द्राप्तिप्रकाशिकाटीका. प्रा.१५ सू. ४ अहोरात्राद्याश्रित्य चन्द्रादीनां मण्डलचारम् ६२३
साम्प्रतं नक्षत्रस्य मण्डलचारमाह-'ता जुगेणं' इत्यादि, 'ता' तावत् 'जुगेण' एकेन युगेन ‘णक्खत्ते' नक्षत्रं 'कइमंडालाई चरइ' कति मण्डलानि चरति ? भगवानाह 'ता' तावत् 'अट्ठारस पणतीसाई दुभाग मंडलसयाई अष्टादशपञ्चत्रिंशदधिकानि द्विभागमण्डलशतानि-द्वितीयभागमण्डलशतानि-एकस्य मण्डलस्य द्वौ भागौ अर्द्धार्द्ररूपो कर्तव्यो तयोर्मध्यात् एकमर्द्धभागं त्यक्त्वा द्वितीयोर्द्धभागोऽत्र गृह्यते ततो द्विभागमण्डलशतानीतिअर्द्धमण्डलशतानि पञ्चत्रिंशदधिकानि अष्टादश शतानि अर्द्धमण्डलानां (१८३५) 'चरई चरति । तोहि-नक्षत्र मष्टानवतिशताधिकेन एकेन शतसहत्रेण (१०९८००) प्रवि भक्तस्य मण्डलस्य सम्बन्धिनः पञ्चत्रिंशदधिकाष्टादशशतसख्यकान् (१८३५) भागान् एकेन मूहूर्तेन गच्छति, युगे च मुहूर्ताः सर्व संख्यया नवशताधिकानि चतुष्पञ्चाशत् सहस्राणि (५४९००) भवन्ति, तत एतैर्नवशताधिकैश्चतुष्पञ्चाशत्सहस्त्रैः (५४९००) पञ्च त्रिंशदधिकाष्टादशशतानि (१८३५) गुण्यन्ते, जायन्ते-दश कोटयः सप्तलक्षाः एकचत्वारिंशत्सहस्राणि पञ्चशतानि (१००७४१५००) इह चार्द्ध मण्डलानि ज्ञातुमिष्टानि ततः अष्टा नवतिशताधिकस्य एकस्य शतसहस्रस्य (१०९८००) अर्द्ध कृते यानि नबशताधिकानि चतुष्पञ्चाशत्सहस्राणि (५४९००) भवन्ति तैर्भागो हियते, हृते च भागे लभ्यन्ते-पञ्चत्रिंश'दधिकानि-अष्टादशशतानि (१८३५) यथोक्तानि अर्द्ध मण्डलानीति । • साम्प्रतं सकल प्रामृतमुपसंहरन्नाह-'इच्चेसा मुहुत्तगई' इत्यादि 'इच्चेसा' इत्येषा'इति-एवमुक्तेन प्रकारेण एषा-मनन्तरोदिता 'मुहुत्तगई' मुहूर्तगतिः प्रतिमुहूर्त चन्द्र सूर्य नक्षत्राणां गतिपरिमाणं, तथा 'रिक्खाइमासराइंदिय जुगमंडलपविभत्ता' ऋक्षादिमास रात्रिन्दिवयुगमण्डलपविभक्का, तत्र ऋक्षादिमासान्-नक्षत्र-चन्द्र सूर्याभिवद्धितमासान्, तथा रात्रिन्दिवानि, तथा युगं चाधिकृत्य मण्डलाना प्रविभक्तिः पृथक् पृथकत्वेन • मण्डलसंख्या प्ररूपणा रूपः प्रविभागः, तथा 'सिग्धगईवत्थू' शीव्र गतिरूपं वस्तु च इत्येतत् पञ्चदशें प्राभृते 'आहियं' आख्यातम् 'तिवेमि' इति ब्रवीमि, यथा भगवन्मुखात् श्रुतं तथा ब्रवीमि. कथयामि, इति सुधर्मस्वामिवचनम् । इदं च भगवद्वचनमतः पूर्वोक्तं सर्व सम्यक्तया श्रद्धेयमिति भावः ॥ सू०४॥
इति श्री जैनाचार्य-जैनधर्मदिवाकर पूज्य श्रीघासीलालबतिविरचितायां. श्री चन्द्रप्रज्ञप्ति सूत्रस्य चन्द्रज्ञप्तिप्रकाशिकायां व्याख्यायां पञ्च- दशं प्रामृतं समाप्तम्।। १५ ।।
। श्री रस्तु ।