________________
६०४
चन्द्रप्राप्तिस्त्रे विवक्षितगतिप्राप्तो भवति-प्रतिमुहूर्त चन्द्रगतिमपेक्ष्य यदा सूर्यगतिश्चिन्त्यते इति भावः तथा 'सेणं' स खलु सूर्य 'गइमायाए' गतिमात्रया एक मुहूर्तगतिपरिमाणेन 'केवइय' कियत्कं कियतो भागान् 'विसेसेइ' विशेषयति १ अयं भावः-एकेन मुहर्तेन चन्द्राक्रान्तेभ्यो भागेभ्यः कियतोऽधिकान् भागान् सूर्य आक्रामतीति प्रश्नः । भगवानाह-वावद्विभागे विसेसेइ द्वापष्टिभागान् विशेषयति, कथमित्याह-चन्द्र एकेन मुहूर्तेन अष्टपष्टयधिकानि सप्तदश भागशतानि (१७६८) गच्छति, सूर्यश्च त्रिंशदधिकानि अष्टदशशतानि (१८३०) गच्छति ततो भवति चन्द्रात् सूर्यस्य द्वापष्टिभागप्रमितो गतिविपयो विशेष इति । - __अथ चन्द्रमपेक्ष्य नक्षत्रगतिविपयं सूत्रमाह 'ता जया गं' इत्यादि 'ता' तावत् 'जया णं' यदा खलु 'चंद गइसमावण्ण' चन्द्र गति समापन्नमपेक्ष्य 'नक्खत्ते नक्षत्रं 'गइसमावण्णे भवई' गतिसमापन्नं भवति प्रतिमुहूर्त चन्द्रगतिमपेक्ष्य यदा नक्षत्रगतिर्विचार्यते तदा
से थे' तत् खल नक्षत्रं 'ग.मायाए' गतिमात्रया गतिप्रमाणेन 'केवइयं विसेसेइ' कियत्कं कियतो भागान् विशेषयति चन्द्रगतिपरिमाणान् नक्षत्रगति कियती विशेषाधिका भवतीतिभावः गगवानाह-'ता' तावत् 'सत्तट्टि भागे विसेसेइ' सप्तपष्टिभागान् विशेषयति-चन्द्राक्रन्तगतिभागपरिमाणात् नक्षत्रगतिभागपरिमाण सप्तपष्टिभागप्रमितमधिकं भवतोति भावः । तथाहि-नक्षत्रं यद् एकेन मुहूर्तेन पञ्च त्रिंशदधिकानि अष्टादशभागशतानि (१८३५) गच्छति, चन्द्ररतु अष्टपष्टयधिकानि सप्तदशभागशतान्येव (१७६८) गच्छतीति, ततः संपधते चन्द्रनक्षत्रयोः सप्तपष्टिभागकृतो विशेष इति ।
अथ सूर्यमपेक्ष्य नक्षत्रगतिपरिमाणं चिन्त्यते-'ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खलु 'सरियं गइसमावणं' सूर्य गतिसमापन्नमपेक्ष्य 'णक्खत्ते गइ समाण्णे मवई' नक्षत्रं गतिसमापन्नं भवति 'से णं' ततः खलु नक्षत्रं 'गइमायाए' गतिमात्रया गति - परिमाणेन 'केवइयं क्रियत्कं कियतो भागान् 'विसेसेइ' विशेषयति सूर्यगतिभागानपेक्ष्य नक्षत्रगतिभागाः किंयन्तोऽधिका भवन्तीति भावः ? भगवानाह-'ता' पंचभागे विसेसेइ तावत् पञ्चभागान् विशेपयति सूर्याक्रान्तगतिभागेभ्यो नक्षत्राकान्तगतिभागाः पञ्च अधिका भवन्तीनि भावः । कमित्याह सूर्य एकेन मुहूर्तेन त्रिंशदधिकानि अष्टादशभागशतानि (१८३०) गच्छति, नक्षत्रं च पञ्चत्रिंशदधिकानि अष्टादशभागशतानि (१८३५) गच्छ'तीति भवति तयोः परस्परं पञ्चभागात्मको विशेष इति ।
अथ चन्द्रेण सहामिजिन्नक्षत्रस्य योगमाह-'ता जया णं' इत्यादि, 'ता' तावत् 'जया णं' यदा खल 'चदं गइसमावण्ण' चन्द्रं गतिसमापन्नमपेश्य 'अभिई णक्खत्ते' अभिजिन्नक्षत्रं 'गडयमावण्णे' गनिममापन्नं भवति तदा 'पुरस्थिमाए भागाए' पौरस्त्याद् भागात्, प्रथमतोऽभिनिन्नक्षत्रं चन्द्रं 'समासाएई' समासादयनि, 'समासाइत्ता' समासाः च 'णव