SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा १५ सू.२ चन्द्रसूर्यनक्षात्रणां परस्परं मण्डलभाग निरूपणम् ६०५ मुहुत्ते' नवमुहूर्तान् 'मुहत्तस्स' एकस्य च मुहूर्तस्य 'सत्तावीसं च सत्तद्विभागे' सप्तविंशति च सप्तपष्टिभागान् यावत् 'चंदेण सद्धिं' चन्द्रेण सार्द्ध 'जोयं जोएइ' योगं युनक्ति-करोति । अस्य भावना प्रागेव कृता । एतावत्कालं 'जोयं जोयत्ता' योगं युक्त्वा योगं कृत्वा पर्यन्तसमये 'जोयं अणुपरियट्टई' योगमनुपरिवर्तयति ततो निवर्त्य श्रवण नक्षत्रस्य योगं समर्पयतीति भावः । 'जोय अणुपरियट्टित्ता' योगमनुपरिवर्त्य 'विप्पजहाई' विप्रजहाति स्वेन सह योगं परित्यजति, एतावदेव 'न किन्तु 'विगयजोई यावि भवइ' विगतयोगि चापि भवति तदा अभिजिन्नक्षत्रं चन्द्रयोगरहितं भवतीतिभावः 'ता जयाणं' इत्यादिना श्रवणेन सह चन्द्रस्य योगमाह-'ता' तावत् 'जयाणं' यदा खल 'चंदं गइ समावण्णं' चन्द्रं गतिसमापन्नमपेक्ष्य 'सवणे णक्खत्ते' श्रवणनक्षत्रं 'गइ समावण्णे' गतिसमापन्न गतिप्राप्तं सत् प्रथमतः 'पुरथिमाए भागाए' पौरस्त्याद् पूर्वभागेन चन्द्रं 'समासाएइ' समासादयति प्राप्नोति 'समासाएत्ता' चन्द्र समासाद्य तत्र चन्द्रेण सह तीसं महत्ते' त्रिंशतं मुहूर्तान् श्रवणस्य समक्षेत्रत्वेन त्रिंशन्मुहूर्तात्मिकत्वात् त्रिंशन्मुहूर्तपर्यन्तं'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्द्ध योगं युनक्ति-करोति 'जोयं जोइत्ता' त्रिंशन्मुहूर्तान् यावत् योगं कृत्वा 'जोयं अणुपरियट्टई' योगमनुपरिवर्तयति श्रवणनक्षत्रं चन्द्रात्परावर्तते 'जोयं अणु परियट्टित्ता' योगमनुपरिवयं श्रवणनक्षत्रं चन्द्रेण सह योगं विमुच्य 'विप्पजहाइ' विप्रजहति चन्द्रं त्यजति, एतावदेव न तदा श्रवणनक्षत्रं 'विगयजोई यावि भवइ' विगतयोगि-चन्द्रयोगरहितं चापि भवति धनिष्ठानक्षत्ररय चन्द्रयोगं समर्पयतीतिभावः । अथाग्रेऽतिदेशमाह 'एवं' इत्यादि, ‘एवं' एवम् पूर्वप्रदर्शितविधिवत् 'एएणं अभिलावेणं' एतेन पूर्वप्रदर्शितेन अभिलापेन सूत्रालापकेन 'णेयव्वं' ज्ञातव्यम् । नक्षत्राणि मुहूर्तानाश्रित्य त्रिप्रकारकाणि सन्तीति यानि नक्षत्राणि यावन्मुहूर्तात्मकानि तेपा तावन्मुहूर्तात्मको योगो वाच्यः, तथाहि-'पण्णरस मुहुत्ताई' पञ्चदशमुहूर्त्तात्मकानि शतभिषग-भरण्याद्री-ऽश्लेषा स्वाति-ज्येष्ठाख्यानि पड़ नक्षत्राणि, एपां पञ्चदशमुहूत्तत्मिको योगश्चन्द्रेण सह वाच्यः । 'तीसइ मुहुत्ताई' यानि च त्रिंशन्मुहूर्त्तात्मकानि-श्रवण-धनिष्ठा-पूर्वभाद्रपदा-रेवत्याश्विनि कृत्तिका-मृगशीर्ष-पुष्य मघा-पूर्वफाल्गुनी-हस्त-चित्रा-ऽनुराधा-मूल-पूर्वाषाढाख्यानि पञ्चदश नक्षत्राणि, तेषां त्रिशन्मुहूर्तात्मको योगश्चन्द्रेण, सह वाच्यः । तथा 'पणयालीसमुहुत्ताई' पञ्चचत्वारिंशन्मुहूर्तात्मकानि-उत्तराभाद्रपदा-रोहिणि-पुनर्वसू-त्तराफाल्गुनी -विशाखो-त्तराषाढाख्यानि षड् नक्षत्राणि एषां पञ्च चत्वारिंशन्मुहूर्तात्मको योगश्चन्द्रण सह वाच्यः । तत्राभिजिच्छ्वणयोर्योगमुहूर्ताः पूर्व सूत्रे एव प्रदर्शिताः । एवं सर्वाण्यपि नक्षत्राणि क्रमेण 'भाणियब्वाई'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy