SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा.१४ सू. ३ ज्योत्स्नाधिक्यनिरूपणम् ५९६ 'आहिया' आख्याता - तिवएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ! भगवानाह-'ता परित्ता' इत्यादि, 'ता' तावत् 'परित्ता' परीताश्च 'असंखेज्जा भागा' असंख्येया भागाः निर्विभागा इति । अथान्धकारविषये पृच्छति–'ता कया ते' इत्यादि 'ता' तावत् 'कया' कदा कस्मिन् काले 'ते' तवमते 'अंधयारे वहू आहिए' अन्धकारो बहूराख्यातः ? ति वएज्जा' इति वदतु कथयतु । भगवानाह-'ता अंधयार पक्खे णं' इत्यादि, 'ता' तावत् , 'अंधयारपक्खणं' अन्धकारपक्षे खल 'अंधयारे' अन्धकारः 'वह आहिए' बहुराख्यातः 'तिवएज्जा' इति वदेत् कथयेत् स्वशिष्येभ्यः । पुनः पृच्छति-'ता कहते' इत्यादि, 'ता' तावत् 'कथं' कस्मात् 'ते' तवमते 'अंधयारपक्खे' अन्धकारपक्षे 'अंधयारे' अन्धकारः 'बहू आहिए' बहुराख्यातः ? 'तिवएज्जा' इति वदेत् कथयतु । भगवानाह-'ता दोसिणा पक्खाओ' इत्यादि 'ता' तावत् 'दोसिणा पक्खाओ' ज्योत्स्नापक्षात् शुक्लपक्षापेक्षयेत्यर्थः 'अंधयारपक्खे' अन्धकारपक्षे–'अंधयारे अन्धकारः 'वह आहिए' बहु आख्यातः 'तिवएज्जा' इति वदेत् । पुनर्गौतमः पृच्छति'ता कहं ते' इत्यादि, 'ता' तावत् 'कह' कथं केन प्रकारेण 'ते' तवमते 'दोसिणा पक्खाओ' ज्योत्स्नापक्षात् शुक्लपक्षात् 'अंधयारपक्खे' अन्धकारपक्षे 'अंधयारे बहुआहिए' अन्धकारो बहुराख्यातः ? 'तिवएज्जा' इति वदेत् वदतु । भगवानाह-'ता' तावत् 'दोसिणा पक्खाओणं' ज्योत्स्नापक्षात खलु शुक्लपक्ष मुक्त्वेत्यर्थः 'अंधयारपक्खं अयमाणे' अन्धकारपक्षमयन् प्राप्नुवन् अन्धकारपक्षे प्रविशन्नित्यर्थः 'चंदे' चन्द्रः 'चत्तारियवालाई मुहूत्तसयाई' चत्वारि द्विचत्वारिंशदविकानि मुहूर्तशतानि, 'छायालिसंच वायट्ठिभागे' पट्चत्वारिंशतंच द्वाषष्टि भागान् 'मुहुत्तस्स' एकस्य मुर्तस्य (४४२४६) कानित्याह-'जाई' यान् यावत् 'चंदे'चन्द्रः 'रज्जइ' रज्यते रक्तो भवति राहु विमानेनाऽऽवृतो भवति, 'तं जहा' तद्यथा-'पढमाए' प्रथमायां कृष्णप्रतिपल्लक्षणायां 'पढमं भागं' प्रथमं भागम् , 'वितियाए' द्वितीयायां वितिय' द्वितीयंभागम्, 'जाव' यावत् तृतयीयां तृतीय भागम् , एवं क्रमेण चतुर्दश्यां चतुर्दशं भागं 'पण्णरसीए पञ्चदश्याममावास्यायां 'पण्णरसमं भागं' यावत् चन्द्रो राहुविमानेन आवृतो भवति सर्वात्मना अदृश्यों भवतीति भावः । उपसंहारमाह-एवं खलु' इत्यादि, ‘एवं' एवम् अनेन पूर्वोक्तप्रकारेण खल 'दोसिणा पक्खाओ' ज्योत्स्नापक्षापेक्षया 'अंधयारपक्खे' अन्धकारपक्षे कृष्णपक्षे 'अंधयारे अन्धकारः 'वहू आहिए' बहुः-अधिक आख्यातः । अयं भावः अन्धकारपक्षेऽमावास्यायां योऽन्धकारः स ज्योत्स्नापक्षादधिको भगवतीत्यतः ज्योत्स्ना पक्षादन्धकारपक्षेऽन्धकार प्रमूत' आख्यात. 'तिवएज्जा' इति वदेत्-कथयेत् स्वशिष्येभ्यः पुनौतमस्तदाधिक्य विषये पृच्छति-'ता केवइएणं' इत्यादि, 'ता' तावत् 'केवइएणं' कियत्कः कियत्परिमितः खलु 'अंध-..
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy